001 वामदेव उवाच 001a यत्राधर्मं प्रणयते दुर्बले बलवत्तरः 001c तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः 002a राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् 002c अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति 003a यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः 003c तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते 004a साहसप्रकृतिर्यत्र कुरुते किञ्चिदुल्बणम् 004c अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति 005a योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते 005c जितानामजितानां च क्षत्रधर्मादपैति सः 006a द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे 006c यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः 007a शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि 007c प्रियो भवति भूतानां न च विभ्रश्यते श्रियः 008a अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् 008c नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् 009a मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः 009c न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् 010a नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् 010c न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः 011a प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् 011c न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् 012a यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः 012c तस्य कर्माणि सिध्यन्ति न च सन्त्यज्यते श्रिया 013a निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये 013c भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह 014a अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् 014c शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि 015a एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् 015c भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि 016a मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम् 016c अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् 017a त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम् 017c कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः 018a रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति 018c प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते 019a ये केचिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत् 019c सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते 020a अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् 020c श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः 021a दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः 021c अबलानभियुञ्जीत न तु ये बलवत्तराः 022a विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् 022c आहवे निधनं कुर्याद्राजा धर्मपरायणः 023a मरणान्तमिदं सर्वं नेह किञ्चिदनामयम् 023c तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् 024a रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् 024c मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही 025a एतानि यस्य गुप्तानि स राजा राजसत्तम 025c सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् 026a नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् 026c एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् 027a दातारं संविभक्तारं मार्दवोपगतं शुचिम् 027c असन्त्यक्तमनुष्यं च तं जनाः कुर्वते प्रियम् 028a यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते 028c आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते 029a योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते 029c शृणोति प्रतिकूलानि विमना नचिरादिव 030a अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते 030c जितानामजितानां च क्षत्रधर्मादपैति सः 031a मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् 031c स वै व्यसनमासाद्य गाधमार्तो न विन्दति 032a यः कल्याणगुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते 032c अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके 033a अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि 033c प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति 034a नाकाले प्रणयेदर्थान्नाप्रिये जातु सञ्ज्वरेत् 034c प्रिये नातिभृशं हृष्येद्युज्येतारोग्यकर्मणि 035a के मानुरक्ता राजानः के भयात्समुपाश्रिताः 035c मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत् 036a न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्वचित् 036c भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः 037a अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् 037c अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् 038a एतां राजोपनिषदं ययातिः स्माह नाहुषः 038c मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान्