001 युधिष्ठिर उवाच 001a कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः 001c पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता 003a राजा वसुमना नाम कौसल्यो बलवाञ्शुचिः 003c महर्षिं परिपप्रच्छ वामदेवं यशस्विनम् 004a धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम् 004c येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः 005a तमब्रवीद्वामदेवस्तपस्वी जपतां वरः 005c हेमवर्णमुपासीनं ययातिमिव नाहुषम् 006a धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् 006c धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् 007a अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः 007c ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते 008a अधर्मदर्शी यो राजा बलादेव प्रवर्तते 008c क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ 009a असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा 009c सहैव परिवारेण क्षिप्रमेवावसीदति 010a अर्थानामननुष्ठाता कामचारी विकत्थनः 010c अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति 011a अथाददानः कल्याणमनसूयुर्जितेन्द्रियः 011c वर्धते मतिमान्राजा स्रोतोभिरिव सागरः 012a न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः 012c बुद्धितो मित्रतश्चापि सततं वसुधाधिपः 013a एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता 013c एतानि शृण्वल्ँलभते यशः कीर्तिं श्रियः प्रजाः 014a एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः 014c अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते 015a अदाता ह्यनतिस्नेहो दण्डेनावर्तयन्प्रजाः 015c साहसप्रकृती राजा क्षिप्रमेव विनश्यति 016a अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धिमान् 016c अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते 017a अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः 017c व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः 018a यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति 018c सुखतन्त्रोऽर्थलाभेषु न चिरं महदश्नुते 019a गुरुप्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता 019c धर्मप्रधानो लोकेषु सुचिरं महदश्नुते