001 उतथ्य उवाच 001a कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः 001c सम्पद्यदैषा भवति सा बिभर्ति सुखं प्रजाः 002a यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् 002c रक्तानि वा शोधयितुं यथा नास्ति तथैव सः 003a एवमेव द्विजेन्द्राणां क्षत्रियाणां विशामपि 003c शूद्राश्चतुर्णां वर्णानां नानाकर्मस्ववस्थिताः 004a कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि 004c ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु 005a तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् 005c शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः 006a कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ 006c राजवृत्तानि सर्वाणि राजैव युगमुच्यते 007a चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च 007c सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति 008a राजैव कर्ता भूतानां राजैव च विनाशकः 008c धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः 009a राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा 009c समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति 010a हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः 010c अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव 011a दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते 011c अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् 012a यच्च भूतं स भजते भूता ये च तदन्वयाः 012c अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव 013a दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च 013c अविषह्यतमं मन्ये मा स्म दुर्बलमासदः 014a दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् 014c मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् 015a न हि दुर्बलदग्धस्य कुले किञ्चित्प्ररोहति 015c आमूलं निर्दहत्येव मा स्म दुर्बलमासदः 016a अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम् 016c बलस्याबलदग्धस्य न किञ्चिदवशिष्यते 017a विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति 017c अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् 018a मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् 018c मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् 019a यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् 019c तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् 020a यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु 020c न हि पापं कृतं कर्म सद्यः फलति गौरिव 021a यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति 021c महान्दैवकृतस्तत्र दण्डः पतति दारुणः 022a युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव 022c अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः 023a राज्ञो यदा जनपदे बहवो राजपूरुषाः 023c अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् 024a यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा 024c कृपणं याचमानानां तद्राज्ञो वैशसं महत् 025a महावृक्षो जायते वर्धते च तं चैव भूतानि समाश्रयन्ति 025c यदा वृक्षश्छिद्यते दह्यते वा तदाश्रया अनिकेता भवन्ति 026a यदा राष्ट्रे धर्ममग्र्यं चरन्ति संस्कारं वा राजगुणं ब्रुवाणाः 026c तैरेवाधर्मश्चरितो धर्ममोहात्तूर्णं जह्यात्सुकृतं दुष्कृतं च 027a यत्र पापा ज्ञायमानाश्चरन्ति; सतां कलिर्विन्दति तत्र राज्ञः 027c यदा राजा शास्ति नरान्नशिष्यान्न तद्राज्यं वर्धते भूमिपाल 028a यश्चामात्यं मानयित्वा यथार्हं मन्त्रे च युद्धे च नृपो नियुञ्ज्यात् 028c प्रवर्धते तस्य राष्ट्रं नृपस्य भुङ्क्ते महीं चाप्यखिलां चिराय 029a अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् 029c समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् 030a संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते 030c निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते 031a त्रायते हि यदा सर्वं वाचा कायेन कर्मणा 031c पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते 032a यदा शारणिकान्राजा पुत्रवत्परिरक्षति 032c भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते 033a यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः 033c कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते 034a कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै 034c हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते 035a विवर्धयति मित्राणि तथारींश्चापकर्षति 035c सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते 036a सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति 036c पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते 037a निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ 037c अस्मिल्ँलोके परे चैव राजा तत्प्राप्नुते फलम् 038a यमो राजा धार्मिकाणां मान्धातः परमेश्वरः 038c संयच्छन्भवति प्राणान्नसंयच्छंस्तु पापकः 039a ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च 039c यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते 040a यमो यच्छति भूतानि सर्वाण्येवाविशेषतः 040c तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः 041a सहस्राक्षेण राजा हि सर्व एवोपमीयते 041c स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ 042a अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् 042c भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा 043a सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् 043c पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः 044a न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् 044c भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम् 045a तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् 045c न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा 046a अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः 046c सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणामपि 047a ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् 047c स्वदेशे परदेशे वा न ते धर्मो विनश्यति 048a धर्मश्चार्थश्च कामश्च धर्म एवोत्तरो भवेत् 048c अस्मिल्ँलोके परे चैव धर्मवित्सुखमेधते 049a त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः 049c सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् 050a अप्रमादश्च शौचं च तात भूतिकरं महत् 050c एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः 051a अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः 051c नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् 052a एतद्वृत्तं वासवस्य यमस्य वरुणस्य च 052c राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय 053a तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् 053c आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ 054a धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत 054c देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः 055 भीष्म उवाच 055a स एवमुक्तो मान्धाता तेनोतथ्येन भारत 055c कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् 056a भवानपि तथा सम्यङ्मान्धातेव महीपतिः 056c धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि