001 भीष्म उवाच 001a यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः 001c मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत 002a स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः 002c तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर 003 उतथ्य उवाच 003a धर्माय राजा भवति न कामकरणाय तु 003c मान्धातरेवं जानीहि राजा लोकस्य रक्षिता 004a राजा चरति वै धर्मं देवत्वायैव गच्छति 004c न चेद्धर्मं स चरति नरकायैव गच्छति 005a धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति 005c तं राजा साधु यः शास्ति स राजा पृथिवीपतिः 006a राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते 006c देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते 007a अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते 007c तदेव मङ्गलं सर्वं लोकः समनुवर्तते 008a उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् 008c भयमाहुर्दिवारात्रं यदा पापो न वार्यते 009a न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः 009c न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते 010a वध्यानामिव सर्वेषां मनो भवति विह्वलम् 010c मनुष्याणां महाराज यदा पापो न वार्यते 011a उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् 011c असृजन्सुमहद्भूतमयं धर्मो भविष्यति 012a यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते 012c यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः 013a वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् 013c वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् 014a धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा 014c तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् 015a धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः 015c अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः 016a प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयम्भुवा 016c तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् 017a तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः 017c स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः 018a कामक्रोधावनादृत्य धर्ममेवानुपालयेत् 018c धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम 019a धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा 019c ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी 020a तेषां ह्यकामकरणाद्राज्ञः सञ्जायते भयम् 020c मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि 021a ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः 021c अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी 022a ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् 022c अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे 023a एतत्फलमसूयाया अभिमानस्य चाभिभो 023c तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी 024a दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः 024c तेन देवासुरा राजन्नीताः सुबहुशो वशम् 025a राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव 025c राजा भवति तं जित्वा दासस्तेन पराजितः 026a स यथा दर्पसहितमधर्मं नानुसेवसे 026c तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि 027a मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः 027c तदभ्यासादुपावर्तादहितानां च सेवनात् 028a निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः 028c पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् 029a एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जयेत् 029c अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत् 030a अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च 030c परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः 031a कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात् 031c अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः 032a एते चान्ये च जायन्ते यदा राजा प्रमाद्यति 032c तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते 033a क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् 033c अधर्माः सम्प्रवर्तन्ते प्रजासङ्करकारकाः 034a अशीते विद्यते शीतं शीते शीतं न विद्यते 034c अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः 035a नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे 035c उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः 036a अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति 036c प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति 037a द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे 037c कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृपदूषणम् 038a ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते 038c त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति