001 भीष्म उवाच 001a वनस्पतीन्भक्ष्यफलान्न छिन्द्युर्विषये तव 001c ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः 002a ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः 002c न ब्राह्मणोपरोधेन हरेदन्यः कथञ्चन 003a विप्रश्चेत्त्यागमातिष्ठेदाख्यायावृत्तिकर्शितः 003c परिकल्प्यास्य वृत्तिः स्यात्सदारस्य नराधिप 004a स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि 004c कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति 005a असंशयं निवर्तेत न चेद्वक्ष्यत्यतः परम् 005c पूर्वं परोक्षं कर्तव्यमेतत्कौन्तेय शासनम् 006a आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम् 006c निमन्त्र्यश्च भवेद्भोगैरवृत्त्या चेत्तदाचरेत् 007a कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम् 007c ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत 008a तस्यां प्रयतमानायां ये स्युस्तत्परिपन्थिनः 008c दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत् 009a शत्रूञ्जहि प्रजा रक्ष यजस्व क्रतुभिर्नृप 009c युध्यस्व समरे वीरो भूत्वा कौरवनन्दन 010a संरक्ष्यान्पालयेद्राजा यः स राजार्यकृत्तमः 010c ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन 011a सदैव राज्ञा बोद्धव्यं सर्वलोकाद्युधिष्ठिर 011c तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः 012a अन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरन्तरान् 012c परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्पालय नित्यदा 013a आत्मानं सर्वतो रक्षन्राजा रक्षेत मेदिनीम् 013c आत्ममूलमिदं सर्वमाहुर्हि विदुषो जनाः 014a किं छिद्रं कोऽनुषङ्गो मे किं वास्त्यविनिपातितम् 014c कुतो मामास्रवेद्दोष इति नित्यं विचिन्तयेत् 015a गुप्तैश्चारैरनुमतैः पृथिवीमनुचारयेत् 015c सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः 015e कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः 016a धर्मज्ञानां धृतिमतां सङ्ग्रामेष्वपलायिनाम् 016c राष्ट्रं च येऽनुजीवन्ति ये च राज्ञोऽनुजीविनः 017a अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः 017c ये च त्वाभिप्रशंसेयुर्निन्देयुरथ वा पुनः 017e सर्वान्सुपरिणीतांस्तान्कारयेत युधिष्ठिर 018a एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् 018c मित्रामित्रमथो मध्यं सर्वभूतेषु भारत 019a तुल्यबाहुबलानां च गुणैरपि निषेविनाम् 019c कथं स्यादधिकः कश्चित्स तु भुञ्जीत मानवान् 020a ये चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा 020c आशीविषा इव क्रुद्धा भुजगा भुजगानिव 021a एतेभ्यश्चाप्रमत्तः स्यात्सदा यत्तो युधिष्ठिर 021c भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः 022a कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः 022c क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः 023a कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः 023c ये वहन्ति धुरं राज्ञां सम्भरन्तीतरानपि 024a इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा 024c मनुष्योरगरक्षांसि वयांसि पशवस्तथा 025a एषा ते राष्ट्रवृत्तिश्च राष्ट्रगुप्तिश्च भारत 025c एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव