001 युधिष्ठिर उवाच 001a यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते 001c कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a यथादेशं यथाकालमपि चैव यथाबलम् 002c अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः 003a यथा तासां च मन्येत श्रेय आत्मन एव च 003c तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत् 004a मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न विपातयेत् 004c वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् 005a जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिप 005c व्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति 006a अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत् 006c ततो भूयस्ततो भूयः कामं वृद्धिं समाचरेत् 007a दमयन्निव दम्यानां शश्वद्भारं प्रवर्धयेत् 007c मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् 008a सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः 008c उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः 009a तस्मात्सर्वसमारम्भो दुर्लभः पुरुषव्रजः 009c यथामुख्यान्सान्त्वयित्वा भोक्तव्य इतरो जनः 010a ततस्तान्भेदयित्वाथ परस्परविवक्षितान् 010c भुञ्जीत सान्त्वयित्वैव यथासुखमयत्नतः 011a न चास्थाने न चाकाले करानेभ्योऽनुपातयेत् 011c आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि 012a उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता 012c अनुपायेन दमयन्प्रकोपयति वाजिनः 013a पानागाराणि वेशाश्च वेशप्रापणिकास्तथा 013c कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः 014a नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः 014c एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः 015a न केनचिद्याचितव्यः कश्चित्किञ्चिदनापदि 015c इति व्यवस्था भूतानां पुरस्तान्मनुना कृता 016a सर्वे तथा न जीवेयुर्न कुर्युः कर्म चेदिह 016c सर्व एव त्रयो लोका न भवेयुरसंशयम् 017a प्रभुर्नियमने राजा य एतान्न नियच्छति 017c भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः 017e तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते 018a स्थानान्येतानि सङ्गम्य प्रसङ्गे भूतिनाशनः 018c कामप्रसक्तः पुरुषः किमकार्यं विवर्जयेत् 019a आपद्येव तु याचेरन्येषां नास्ति परिग्रहः 019c दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना 020a मा ते राष्ट्रे याचनका मा ते भूयुश्च दस्यवः 020c इष्टादातार एवैते नैते भूतस्य भावकाः 021a ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः 021c ते ते राष्ट्रे प्रवर्तन्तां मा भूतानामभावकाः 022a दण्ड्यास्ते च महाराज धनादानप्रयोजनाः 022c प्रयोगं कारयेयुस्तान्यथा बलिकरांस्तथा 023a कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किञ्चिदीदृशम् 023c पुरुषैः कारयेत्कर्म बहुभिः सह कर्मिभिः 024a नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः 024c संशयं लभते किञ्चित्तेन राजा विगर्ह्यते 025a धनिनः पूजयेन्नित्यं यानाच्छादनभोजनैः 025c वक्तव्याश्चानुगृह्णीध्वं पूजाः सह मयेति ह 026a अङ्गमेतन्महद्राज्ञां धनिनो नाम भारत 026c ककुदं सर्वभूतानां धनस्थो नात्र संशयः 027a प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च 027c तपस्वी सत्यवादी च बुद्धिमांश्चाभिरक्षति 028a तस्मादेतेषु सर्वेषु प्रीतिमान्भव पार्थिव 028c सत्यमार्जवमक्रोधमानृशंस्यं च पालय 029a एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे 029c सत्यार्जवपरो राजन्मित्रकोशसमन्वितः