001 युधिष्ठिर उवाच 001a राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव च सङ्ग्रहम् 001c सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ 002 भीष्म उवाच 002a राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव च सङ्ग्रहम् 002c हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु 003a ग्रामस्याधिपतिः कार्यो दशग्राम्यस्तथापरः 003c द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत् 004a ग्रामे यान्ग्रामदोषांश्च ग्रामिकः परिपालयेत् 004c तान्ब्रूयाद्दशपायासौ स तु विंशतिपाय वै 005a सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने 005c ग्रामाणां शतपालाय सर्वमेव निवेदयेत् 006a यानि ग्रामीणभोज्यानि ग्रामिकस्तान्युपाश्नुयात् 006c दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः 007a ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः 007c महान्तं भरतश्रेष्ठ सुस्फीतजनसङ्कुलम् 007e तत्र ह्यनेकमायत्तं राज्ञो भवति भारत 008a शाखानगरमर्हस्तु सहस्रपतिरुत्तमम् 008c धान्यहैरण्यभोगेन भोक्तुं राष्ट्रिय उद्यतः 009a तथा यद्ग्रामकृत्यं स्याद्ग्रामिकृत्यं च ते स्वयम् 009c धर्मज्ञः सचिवः कश्चित्तत्प्रपश्येदतन्द्रितः 010a नगरे नगरे च स्यादेकः सर्वार्थचिन्तकः 010c उच्चैःस्थाने घोररूपो नक्षत्राणामिव ग्रहः 010e भवेत्स तान्परिक्रामेत्सर्वानेव सदा स्वयम् 011a विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम् 011c योगक्षेमं च सम्प्रेक्ष्य वणिजः कारयेत्करान् 012a उत्पत्तिं दानवृत्तिं च शिल्पं सम्प्रेक्ष्य चासकृत् 012c शिल्पप्रतिकरानेव शिल्पिनः प्रति कारयेत् 013a उच्चावचकरा न्याय्याः पूर्वराज्ञां युधिष्ठिर 013c यथा यथा न हीयेरंस्तथा कुर्यान्महीपतिः 014a फलं कर्म च सम्प्रेक्ष्य ततः सर्वं प्रकल्पयेत् 014c फलं कर्म च निर्हेतु न कश्चित्सम्प्रवर्तयेत् 015a यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ 015c समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः 016a नोच्छिन्द्यादात्मनो मूलं परेषां वापि तृष्णया 016c ईहाद्वाराणि संरुध्य राजा सम्प्रीतिदर्शनः 017a प्रद्विषन्ति परिख्यातं राजानमतिखादिनम् 017c प्रद्विष्टस्य कुतः श्रेयः सम्प्रियो लभते प्रियम् 018a वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना 018c भृतो वत्सो जातबलः पीडां सहति भारत 019a न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर 019c राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत् 020a यो राष्ट्रमनुगृह्णाति परिगृह्य स्वयं नृपः 020c सञ्जातमुपजीवन्स लभते सुमहत्फलम् 021a आपदर्थं हि निचयान्राजान इह चिन्वते 021c राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा 022a पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा 022c यथाशक्त्यनुकम्पेत सर्वानभ्यन्तरानपि 023a बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम् 023c एवं न सम्प्रकुप्यन्ते जनाः सुखितदुःखिताः 024a प्रागेव तु करादानमनुभाष्य पुनः पुनः 024c सन्निपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत् 025a इयमापत्समुत्पन्ना परचक्रभयं महत् 025c अपि नान्ताय कल्पेत वेणोरिव फलागमः 026a अरयो मे समुत्थाय बहुभिर्दस्युभिः सह 026c इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम् 027a अस्यामापदि घोरायां सम्प्राप्ते दारुणे भये 027c परित्राणाय भवतां प्रार्थयिष्ये धनानि वः 028a प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये 028c नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः 029a कलत्रमादितः कृत्वा नश्येत्स्वं स्वयमेव हि 029c अपि चेत्पुत्रदारार्थमर्थसञ्चय इष्यते 030a नन्दामि वः प्रभावेन पुत्राणामिव चोदये 030c यथाशक्त्यनुगृह्णामि राष्ट्रस्यापीडया च वः 031a आपत्स्वेव च वोढव्यं भवद्भिः सद्गवैरिव 031c न वः प्रियतरं कार्यं धनं कस्याञ्चिदापदि 032a इति वाचा मधुरया श्लक्ष्णया सोपचारया 032c स्वरश्मीनभ्यवसृजेद्युगमादाय कालवित् 033a प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम् 033c योगक्षेमं च सम्प्रेक्ष्य गोमिनः कारयेत्करान् 034a उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः 034c तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत् 035a सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः 035c गोमिनां पार्थ कर्तव्यं संविभागाः प्रियाणि च 036a अजस्रमुपयोक्तव्यं फलं गोमिषु सर्वतः 036c प्रभावयति राष्ट्रं च व्यवहारं कृषिं तथा 037a तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः 037c दयावानप्रमत्तश्च करान्सम्प्रणयन्मृदून् 038a सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः 038c न ह्यतः सदृशं किञ्चिद्धनमस्ति युधिष्ठिर