001 युधिष्ठिर उवाच 001a कथंविधं पुरं राजा स्वयमावस्तुमर्हति 001c कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना 002c न्याय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत 003a तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः 003c श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः 004a षड्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत् 004c सर्वसम्पत्प्रधानं यद्बाहुल्यं वापि सम्भवेत् 005a धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च 005c मनुष्यदुर्गमब्दुर्गं वनदुर्गं च तानि षट् 006a यत्पुरं दुर्गसम्पन्नं धान्यायुधसमन्वितम् 006c दृढप्राकारपरिखं हस्त्यश्वरथसङ्कुलम् 007a विद्वांसः शिल्पिनो यत्र निचयाश्च सुसञ्चिताः 007c धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः 008a ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम् 008c प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम् 009a सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम् 009c शूराढ्यजनसम्पन्नं ब्रह्मघोषानुनादितम् 010a समाजोत्सवसम्पन्नं सदापूजितदैवतम् 010c वश्यामात्यबलो राजा तत्पुरं स्वयमावसेत् 011a तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत् 011c पुरे जनपदे चैव सर्वदोषान्निवर्तयेत् 012a भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत् 012c निचयान्वर्धयेत्सर्वांस्तथा यन्त्रगदागदान् 013a काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान् 013c मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च 014a शणं सर्जरसं धान्यमायुधानि शरांस्तथा 014c चर्म स्नायु तथा वेत्रं मुञ्जबल्बजधन्वनान् 015a आशयाश्चोदपानाश्च प्रभूतसलिला वराः 015c निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः 016a सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः 016c महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः 017a प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः 017c कुलीनाः सत्त्वसम्पन्ना युक्ताः सर्वेषु कर्मसु 018a पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मिकान् 018c नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु 019a बाह्यमाभ्यन्तरं चैव पौरजानपदं जनम् 019c चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत् 020a चारान्मन्त्रं च कोशं च मन्त्रं चैव विशेषतः 020c अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम् 021a उदासीनारिमित्राणां सर्वमेव चिकीर्षितम् 021c पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा 022a ततस्तथा विधातव्यं सर्वमेवाप्रमादतः 022c भक्तान्पूजयता नित्यं द्विषतश्च निगृह्णता 023a यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया 023c प्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम् 024a कृपणानाथवृद्धानां विधवानां च योषिताम् 024c योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत् 025a आश्रमेषु यथाकालं चेलभाजनभोजनम् 025c सदैवोपहरेद्राजा सत्कृत्यानवमन्य च 026a आत्मानं सर्वकार्याणि तापसे राज्यमेव च 026c निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा 027a सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम् 027c पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः 028a तस्मिन्कुर्वीत विश्वासं राजा कस्याञ्चिदापदि 028c तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः 029a तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत च 029c न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत् 030a अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः 030c अटवीष्वपरः कार्यः सामन्तनगरेषु च 031a तेषु सत्कारसंस्कारान्संविभागांश्च कारयेत् 031c परराष्ट्राटवीस्थेषु यथा स्वविषये तथा 032a ते कस्याञ्चिदवस्थायां शरणं शरणार्थिने 032c राज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः 033a एष ते लक्षणोद्देशः सङ्क्षेपेण प्रकीर्तितः 033c यादृशं नगरं राजा स्वयमावस्तुमर्हति