001 युधिष्ठिर उवाच 001a कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः 001c प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् 002 भीष्म उवाच 002a व्यवहारेण शुद्धेन प्रजापालनतत्परः 002c प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः 003 युधिष्ठिर उवाच 003a कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः 003c एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि 004a ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति 004c नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः 005 भीष्म उवाच 005a एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमान् 005c दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः 006a किं तु सङ्क्षेपतः शीलं प्रयत्ने नेह दुर्लभम् 006c वक्ष्यामि तु यथामात्यान्यादृशांश्च करिष्यसि 007a चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन् 007c त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके 008a अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत् 008c पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम् 009a मतिस्मृतिसमायुक्तं विनीतं समदर्शनम् 009c कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम् 010a विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम् 010c अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् 011a ततः सम्प्रेषयेद्राष्ट्रे राष्ट्रायाथ च दर्शयेत् 011c अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा 012a न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम् 012c कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडयेत् 013a विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव 013c परिस्रवेच्च सततं नौर्विशीर्णेव सागरे 014a प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः 014c हार्दं भयं सम्भवति स्वर्गश्चास्य विरुध्यते 015a अथ योऽधर्मतः पाति राजामात्योऽथ वात्मजः 015c धर्मासने नियुक्तः सन्धर्ममूलं नरर्षभ 016a कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः 016c आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः 017a बलात्कृतानां बलिभिः कृपणं बहु जल्पताम् 017c नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् 018a ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत् 018c असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः 019a अपराधानुरूपं च दण्डं पापेषु पातयेत् 019c उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः 020a विनयैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवः 020c सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् 021a राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत् 021c आजीवकस्य स्तेनस्य वर्णसङ्करकस्य च 022a सम्यक्प्रणयतो दण्डं भूमिपस्य विशाम्पते 022c युक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः 023a कामकारेण दण्डं तु यः कुर्यादविचक्षणः 023c स इहाकीर्तिसंयुक्तो मृतो नरकमाप्नुयात् 024a न परस्य श्रवादेव परेषां दण्डमर्पयेत् 024c आगमानुगमं कृत्वा बध्नीयान्मोक्षयेत वा 025a न तु हन्यान्नृपो जातु दूतं कस्याञ्चिदापदि 025c दूतस्य हन्ता निरयमाविशेत्सचिवैः सह 026a यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः 026c यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः 027a कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः 027c यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः 028a एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता 028c शिरोरक्षश्च भवति गुणैरेतैः समन्वितः 029a धर्मार्थशास्त्रतत्त्वज्ञः सन्धिविग्रहको भवेत् 029c मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता 030a कुलीनः सत्यसम्पन्नः शक्तोऽमात्यः प्रशंसितः 030c एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् 031a व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः 031c वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् 032a विश्वासयेत्परांश्चैव विश्वसेन्न तु कस्यचित् 032c पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते 033a एतच्छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ 033c अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते