001 भीष्म उवाच 001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001c बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर 002 शक्र उवाच 002a किं स्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन् 002c प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् 003 बृहस्पतिरुवाच 003a सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन् 003c प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् 004a एतदेकपदं शक्र सर्वलोकसुखावहम् 004c आचरन्सर्वभूतेषु प्रियो भवति सर्वदा 005a यो हि नाभाषते किञ्चित्सततं भ्रुकुटीमुखः 005c द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन् 006a यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते 006c स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति 007a दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम् 007c न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम् 008a अदाता ह्यपि भूतानां मधुरामीरयन्गिरम् 008c सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे 009a तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह 009c फलं च जनयत्येवं न चास्योद्विजते जनः 010a सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च 010c सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते 011 भीष्म उवाच 011a इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा 011c तथा त्वमपि कौन्तेय सम्यगेतत्समाचर