001 भीष्म उवाच 001a ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः 001c शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः 002a अत्याढ्यांश्चातिशूरांश्च ब्राह्मणांश्च बहुश्रुतान् 002c सुसन्तुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु 003a एतान्सहायाल्ँलिप्सेथाः सर्वास्वापत्सु भारत 003c कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति 004a प्रसन्नं ह्यप्रसन्नं वा पीडितं हृतमेव वा 004c आवर्तयति भूयिष्ठं तदेको ह्यनुपालितः 005a कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः 005c प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः 006a दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः 006c ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः 007a अर्थमानार्घ्यसत्कारैर्भोगैरुच्चावचैः प्रियान् 007c यानर्थभाजो मन्येथास्ते ते स्युः सुखभागिनः 008a अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः 008c न त्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः 009a अनार्या ये न जानन्ति समयं मन्दचेतसः 009c तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान् 010a नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः 010c यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् 011a श्रेयसो लक्षणं ह्येतद्विक्रमो यस्य दृश्यते 011c कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति 012a समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः 012c न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् 013a अमानी सत्यवाक्शक्तो जितात्मा मान्यमानिता 013c स ते मन्त्रसहायः स्यात्सर्वावस्थं परीक्षितः 014a कुलीनः सत्यसम्पन्नस्तितिक्षुर्दक्ष आत्मवान् 014c शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् 015a तस्यैवं वर्तमानस्य पुरुषस्य विजानतः 015c अमित्राः सम्प्रसीदन्ति ततो मित्रीभवन्त्यपि 016a अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणान् 016c संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः 017a सम्बद्धाः पुरुषैराप्तैरभिजातैः स्वदेशजैः 017c अहार्यैरव्यभीचारैः सर्वतः सुपरीक्षितैः 018a योधाः स्रौवास्तथा मौलास्तथैवान्येऽप्यवस्कृताः 018c कर्तव्या भूतिकामेन पुरुषेण बुभूषता 019a येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना 019c तेजो धैर्यं क्षमा शौचमनुराग स्थितिर्धृतिः 020a परीक्षितगुणान्नित्यं प्रौढभावान्धुरन्धरान् 020c पञ्चोपधाव्यतीतांश्च कुर्याद्राजार्थकारिणः 021a पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान् 021c कुलीनान्सत्यसम्पन्नानिङ्गितज्ञाननिष्ठुरान् 022a देशकालविधानज्ञान्भर्तृकार्यहितैषिणः 022c नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः 023a हीनतेजा ह्यसंहृष्टो नैव जातु व्यवस्यति 023c अवश्यं जनयत्येव सर्वकर्मसु संशयान् 024a एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत 024c धर्मार्थकामयुक्तोऽपि नालं मन्त्रं परीक्षितुम् 025a तथैवानभिजातोऽपि काममस्तु बहुश्रुतः 025c अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु 026a यो वा ह्यस्थिरसङ्कल्पो बुद्धिमानागतागमः 026c उपायज्ञोऽपि नालं स कर्म यापयितुं चिरम् 027a केवलात्पुनराचारात्कर्मणो नोपपद्यते 027c परिमर्शो विशेषाणामश्रुतस्येह दुर्मतेः 028a मन्त्रिण्यननुरक्ते तु विश्वासो न हि विद्यते 028c तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत् 029a व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः 029c मारुतोपहतच्छिद्रैः प्रविश्याग्निरिव द्रुमम् 030a सङ्क्रुध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति 030c वाचा क्षिपति संरब्धस्ततः पश्चात्प्रसीदति 031a तानि तान्यनुरक्तेन शक्यान्यनुतितिक्षितुम् 031c मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः 032a यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया 032c समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् 033a अनृजुस्त्वनुरक्तोऽपि सम्पन्नश्चेतरैर्गुणैः 033c राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति 034a योऽमित्रैः सह सम्बद्धो न पौरान्बहु मन्यते 034c स सुहृत्तादृशो राज्ञो न मन्त्रं श्रोतुमर्हति 035a अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः 035c स सुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति 036a आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः 036c सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति 037a यस्त्वल्पेनापि कार्येण सकृदाक्षारितो भवेत् 037c पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति 038a कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः 038c सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति 039a ज्ञानविज्ञानसम्पन्नः प्रकृतिज्ञः परात्मनोः 039c सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति 040a सत्यवाक्शीलसम्पन्नो गम्भीरः सत्रपो मृदुः 040c पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति 041a सन्तुष्टः सम्मतः सत्यः शौटीरो द्वेष्यपापकः 041c मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति 042a सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे 042c तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप 043a पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः 043c योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति 044a तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः 044c मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः 045a स्वासु प्रकृतिषु छिद्रं लक्षयेरन्परस्य च 045c मन्त्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते 046a नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् 046c गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः 047a मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः 047c मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः 048a राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते 048c स्वामिनं त्वनुवर्तन्ति वृत्त्यर्थमिह मन्त्रिणः 049a स विनीय मदक्रोधौ मानमीर्ष्यां च निर्वृतः 049c नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः 050a तेषां त्रयाणां विविधं विमर्शं बुध्येत चित्तं विनिवेश्य तत्र 050c स्वनिश्चयं तं परनिश्चयं च निवेदयेदुत्तरमन्त्रकाले 051a धर्मार्थकामज्ञमुपेत्य पृच्छेद्युक्तो गुरुं ब्राह्मणमुत्तमार्थम् 051c निष्ठा कृता तेन यदा सह स्यात्तं तत्र मार्गं प्रणयेदसक्तम् 052a एवं सदा मन्त्रयितव्यमाहुर्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः 052c तस्मात्त्वमेवं प्रणयेः सदैव मन्त्रं प्रजासङ्ग्रहणे समर्थम् 053a न वामनाः कुब्जकृशा न खञ्जा; नान्धा जडाः स्त्री न नपुंसकं च 053c न चात्र तिर्यङ्न पुरो न पश्चान्नोर्ध्वं न चाधः प्रचरेत कश्चित् 054a आरुह्य वातायनमेव शून्यं स्थलं प्रकाशं कुशकाशहीनम् 054c वागङ्गदोषान्परिहृत्य मन्त्रं सम्मन्त्रयेत्कार्यमहीनकालम्