001 भीष्म उवाच 001a एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत 001c यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः स मानवः 002a ह्रियमाणममात्येन भृतो वा यदि वाभृतः 002c यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर 003a श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत् 003c अमात्या ह्युपहन्तारं भूयिष्ठं घ्नन्ति भारत 004a राजकोशस्य गोप्तारं राजकोशविलोपकाः 004c समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः 005a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 005c मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह 006a कोसलानामाधिपत्यं सम्प्राप्ते क्षेमदर्शिनि 006c मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् 007a स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः 007c पूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः 008a अधीये वायसीं विद्यां शंसन्ति मम वायसाः 008c अनागतमतीतं च यच्च सम्प्रति वर्तते 009a इति राष्ट्रे परिपतन्बहुशः पुरुषैः सह 009c सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान् 010a स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः 010c राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः 011a तमेव काकमादाय राजानं द्रष्टुमागमत् 011c सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः 012a स स्म कौसल्यमागम्य राजामात्यमलङ्कृतम् 012c प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् 013a असौ चासौ च जानीते राजकोशस्त्वया हृतः 013c एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् 014a तथान्यानपि स प्राह राजकोशहरान्सदा 014c न चास्य वचनं किञ्चिदकृतं श्रूयते क्वचित् 015a तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह 015c तमतिक्रम्य सुप्तस्य निशि काकमपोथयन् 016a वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे 016c पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् 017a राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम् 017c अनुज्ञातस्त्वया ब्रूयां वचनं त्वत्पुरो हितम् 018a मित्रार्थमभिसन्तप्तो भक्त्या सर्वात्मना गतः 018c अयं तवार्थं हरते यो ब्रूयादक्षमान्वितः 019a सम्बुबोधयिषुर्मित्रं सदश्वमिव सारथिः 019c अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम् 020a तथाविधस्य सुहृदः क्षन्तव्यं संविजानता 020c ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता 021a तं राजा प्रत्युवाचेदं यन्मा किञ्चिद्भवान्वदेत् 021c कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् 022a ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि 022c करिष्यामि हि ते वाक्यं यद्यन्मां विप्र वक्ष्यसि 023 मुनिरुवाच 023a ज्ञात्वा नयानपायांश्च भृत्यतस्ते भयानि च 023c भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम् 024a प्रागेवोक्तश्च दोषोऽयमाचार्यैर्नृपसेविनाम् 024c अगतीकगतिर्ह्येषा या राज्ञा सह जीविका 025a आशीविषैश्च तस्याहुः सङ्गतं यस्य राजभिः 025c बहुमित्राश्च राजानो बह्वमित्रास्तथैव च 026a तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपसेविनाम् 026c अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत् 027a नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ 027c न तु प्रमादः कर्तव्यः कथञ्चिद्भूतिमिच्छता 028a प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम् 028c अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः 029a आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् 029c यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः 030a दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात् 030c दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेष्टितात् 031a देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः 031c वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् 031e इति राजन्मयः प्राह वर्तते च तथैव तत् 032a अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः 032c ददात्यस्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि 033a वायसश्चैव मे राजन्नन्तकायाभिसंहितः 033c न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः 033e हिताहितांस्तु बुध्येथा मा परोक्षमतिर्भव 034a ये त्वादानपरा एव वसन्ति भवतो गृहे 034c अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् 035a ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तरम् 035c अन्तरैरभिसन्धाय राजन्सिध्यन्ति नान्यथा 036a तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम् 036c तैर्हि मे सन्धितो बाणः काके निपतितः प्रभो 037a छद्मना मम काकश्च गमितो यमसादनम् 037c दृष्टं ह्येतन्मया राजंस्तपोदीर्घेण चक्षुषा 038a बहुनक्रझषग्राहां तिमिङ्गिलगणायुताम् 038c काकेन बडिशेनेमामतार्षं त्वामहं नदीम् 039a स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम् 039c दुरासदां दुष्प्रवेशां गुहां हैमवतीमिव 040a अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते 040c राजदुर्गावतरणे नोपायं पण्डिता विदुः 041a गहनं भवतो राज्यमन्धकारतमोवृतम् 041c नेह विश्वसितुं शक्यं भवतापि कुतो मया 042a अतो नायं शुभो वासस्तुल्ये सदसती इह 042c वधो ह्येवात्र सुकृते दुष्कृते न च संशयः 043a न्यायतो दुष्कृते घातः सुकृते स्यात्कथं वधः 043c नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद्बुधः 044a सीता नाम नदी राजन्प्लवो यस्यां निमज्जति 044c तथोपमामिमां मन्ये वागुरां सर्वघातिनीम् 045a मधुप्रपातो हि भवान्भोजनं विषसंयुतम् 045c असतामिव ते भावो वर्तते न सतामिव 045e आशीविषैः परिवृतः कूपस्त्वमिव पार्थिव 046a दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता 046c नदी मधुरपानीया यथा राजंस्तथा भवान् 046e श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि 047a यथाश्रित्य महावृक्षं कक्षः संवर्धते महान् 047c ततस्तं संवृणोत्येव तमतीत्य च वर्धते 048a तेनैवोपेन्धनो नूनं दावो दहति दारुणः 048c तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय 049a भवतैव कृता राजन्भवता परिपालिताः 049c भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् 050a उषितं शङ्कमानेन प्रमादं परिरक्षता 050c अन्तःसर्प इवागारे वीरपत्न्या इवालये 050e शीलं जिज्ञासमानेन राज्ञश्च सहजीविना 051a कच्चिज्जितेन्द्रियो राजा कच्चिदभ्यन्तरा जिताः 051c कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः 052a जिज्ञासुरिह सम्प्राप्तस्तवाहं राजसत्तम 052c तस्य मे रोचसे राजन्क्षुधितस्येव भोजनम् 053a अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् 053c भवतोऽर्थकृदित्येव मयि दोषो हि तैः कृतः 053e विद्यते कारणं नान्यदिति मे नात्र संशयः 054a न हि तेषामहं द्रुग्धस्तत्तेषां दोषवद्गतम् 054c अरेर्हि दुर्हताद्भेयं भग्नपृष्ठादिवोरगात् 055 राजोवाच 055a भूयसा परिबर्हेण सत्कारेण च भूयसा 055c पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम 056a ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे 056c भवतैव हि तज्ज्ञेयं यदिदानीमनन्तरम् 057a यथा स्याद्दुष्कृतो दण्डो यथा च सुकृतं कृतम् 057c तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् 058 मुनिरुवाच 058a अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु 058c ततः कारणमाज्ञाय पुरुषं पुरुषं जहि 059a एकदोषा हि बहवो मृद्नीयुरपि कण्टकान् 059c मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते 060a वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः 060c स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः 061a राजन्नात्मानमाचक्षे सम्बन्धी भवतो ह्यहम् 061c मुनिः कालकवृक्षीय इत्येवमभिसञ्ज्ञितः 062a पितुः सखा च भवतः सम्मतः सत्यसङ्गरः 062c व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते 063a सर्वकामान्परित्यज्य तपस्तप्तं तदा मया 063c स्नेहात्त्वां प्रब्रवीम्येतन्मा भूयो विभ्रमेदिति 064a उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया 064c राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि 065 भीष्म उवाच 065a ततो राजकुले नान्दी सञ्जज्ञे भूयसी पुनः 065c पुरोहितकुले चैव सम्प्राप्ते ब्राह्मणर्षभे 066a एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने 066c मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः 067a हितं तद्वचनं श्रुत्वा कौसल्योऽन्वशिषन्महीम् 067c तथा च कृतवान्राजा यथोक्तं तेन भारत