001 युधिष्ठिर उवाच 001a एवमग्राह्यके तस्मिञ्ज्ञातिसम्बन्धिमण्डले 001c मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c वासुदेवस्य संवादं सुरर्षेर्नारदस्य च 003 वासुदेव उवाच 003a नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम् 003c अपण्डितो वापि सुहृत्पण्डितो वापि नात्मवान् 004a स ते सौहृदमास्थाय किञ्चिद्वक्ष्यामि नारद 004c कृत्स्नां च बुद्धिं सम्प्रेक्ष्य सम्पृच्छे त्रिदिवङ्गम 005a दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् 005c अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे 006a अरणीमग्निकामो वा मथ्नाति हृदयं मम 006c वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा 007a बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे 007c रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद 008a अन्ये हि सुमहाभागा बलवन्तो दुरासदाः 008c नित्योत्थानेन सम्पन्ना नारदान्धकवृष्णयः 009a यस्य न स्युर्न वै स स्याद्यस्य स्युः कृच्छ्रमेव तत् 009c द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च 010a स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः 010c यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः 011a सोऽहं कितवमातेव द्वयोरपि महामुने 011c एकस्य जयमाशंसे द्वितीयस्यापराजयम् 012a ममैवं क्लिश्यमानस्य नारदोभयतः सदा 012c वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा 013 नारद उवाच 013a आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह 013c प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः 014a सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा 014c अक्रूरभोजप्रभवाः सर्वे ह्येते तदन्वयाः 015a अर्थहेतोर्हि कामाद्वाद्वारा बीभत्सयापि वा 015c आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् 016a कृतमूलमिदानीं तज्जातशब्दं सहायवत् 016c न शक्यं पुनरादातुं वान्तमन्नमिव त्वया 017a बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथञ्चन 017c ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः 018a तच्चेत्सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् 018c महाक्षयव्ययं वा स्याद्विनाशो वा पुनर्भवेत् 019a अनायसेन शस्त्रेण मृदुना हृदयच्छिदा 019c जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च 020 वासुदेव उवाच 020a अनायसं मुने शस्त्रं मृदु विद्यामहं कथम् 020c येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च 021 नारद उवाच 021a शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम् 021c यथार्हप्रतिपूजा च शस्त्रमेतदनायसम् 022a ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च 022c गिरा त्वं हृदयं वाचं शमयस्व मनांसि च 023a नामहापुरुषः कश्चिन्नानात्मा नासहायवान् 023c महतीं धुरमादत्ते तामुद्यम्योरसा वह 024a सर्व एव गुरुं भारमनड्वान्वहते समे 024c दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम् 025a भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव 025c यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु 026a नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् 026c नान्यत्र धनसन्त्यागाद्गणः प्राज्ञेऽवतिष्ठते 027a धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं शुभम् 027c ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु 028a आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो 028c षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा 029a माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः 029c त्वय्यासक्ता महाबाहो लोका लोकेश्वराश्च ये 030a उपासते हि त्वद्बुद्धिमृषयश्चापि माधव 030c त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम् 030e त्वामासाद्य यदुश्रेष्ठमेधन्ते ज्ञातिनः सुखम्