001 युधिष्ठिर उवाच 001a यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् 001c पुरुषेणासहायेन किमु राज्यं पितामह 002a किंशीलः किंसमाचारो राज्ञोऽर्थसचिवो भवेत् 002c कीदृशे विश्वसेद्राजा कीदृशे नापि विश्वसेत् 003 भीष्म उवाच 003a चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत 003c सहार्थो भजमानश्च सहजः कृत्रिमस्तथा 004a धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः 004c यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् 005a यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत् 005c धर्माधर्मेण राजानश्चरन्ति विजिगीषवः 006a चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ 006c सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः 007a न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे 007c प्रमादिनं हि राजानं लोकाः परिभवन्त्युत 008a असाधुः साधुतामेति साधुर्भवति दारुणः 008c अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति 009a अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत् 009c तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् 010a एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः 010c अविश्वासश्च सर्वत्र मृत्युना न विशिष्यते 011a अकालमृत्युर्विश्वासो विश्वसन्हि विपद्यते 011c यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति 012a तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित् 012c एषा नीतिगतिस्तात लक्ष्मीश्चैव सनातनी 013a यं मन्येत ममाभावादिममर्थागमः स्पृशेत् 013c नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः 014a यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति 014c न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः 015a तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति 015c यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत् 016a यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत् 016c एतदुत्तममित्रस्य निमित्तमभिचक्षते 017a यं मन्येत ममाभावादस्याभावो भवेदिति 017c तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा 018a तं शक्त्या वर्धमानश्च सर्वतः परिबृंहयेत् 018c नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु 019a क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम् 019c ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः 020a व्यसनान्नित्यभीतोऽसौ समृद्ध्यामेव तृप्यते 020c यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते 021a रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः 021c कुलीनः शीलसम्पन्नः स ते स्यात्प्रत्यनन्तरः 022a मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंसवान् 022c यो मानितोऽमानितो वा न सन्दूष्येत्कदाचन 023a ऋत्विग्वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः 023c गृहे वसेदमात्यस्ते यः स्यात्परमपूजितः 024a स ते विद्यात्परं मन्त्रं प्रकृतिं चार्थधर्मयोः 024c विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा 025a नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम् 025c एकार्थादेव भूतानां भेदो भवति सर्वदा 026a कीर्तिप्रधानो यश्च स्याद्यश्च स्यात्समये स्थितः 026c समर्थान्यश्च न द्वेष्टि समर्थान्कुरुते च यः 027a यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत् 027c दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः 028a शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः 028c कुलीनः शीलसम्पन्नस्तितिक्षुरनसूयकः 029a एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः 029c पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः 030a कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु 030c युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्ति च 031a एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा 031c अनुतिष्ठन्ति चैवार्थानाचक्षाणाः परस्परम् 032a ज्ञातिभ्यश्चैव बिभ्येथा मृत्योरिव यतः सदा 032c उपराजेव राजर्धिं ज्ञातिर्न सहते सदा 033a ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः 033c नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति 034a अज्ञातिता नातिसुखा नावज्ञेयास्त्वतः परम् 034c अज्ञातिमन्तं पुरुषं परे परिभवन्त्युत 035a निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम् 035c नान्यैर्निकारं सहते ज्ञातेर्ज्ञातिः कदाचन 036a आत्मानमेव जानाति निकृतं बान्धवैरपि 036c तेषु सन्ति गुणाश्चैव नैर्गुण्यं तेषु लक्ष्यते 037a नाज्ञातिरनुगृह्णाति नाज्ञातिर्दिग्धमस्यति 037c उभयं ज्ञातिलोकेषु दृश्यते साध्वसाधु च 038a तान्मानयेत्पूजयेच्च नित्यं वाचा च कर्मणा 038c कुर्याच्च प्रियमेतेभ्यो नाप्रियं किञ्चिदाचरेत् 039a विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा 039c न हि दोषो गुणो वेति निस्पृक्तस्तेषु दृश्यते 040a तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः 040c अमित्राः सम्प्रसीदन्ति तथा मित्रीभवन्त्यपि 041a य एवं वर्तते नित्यं ज्ञातिसम्बन्धिमण्डले 041c मित्रेष्वमित्रेष्वैश्वर्ये चिरं यशसि तिष्ठति