001 युधिष्ठिर उवाच 001a व्याख्याता क्षत्रधर्मेण वृत्तिरापत्सु भारत 001c कथञ्चिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा 002 भीष्म उवाच 002a अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् 002c कृषिगोरक्षमास्थाय व्यसने वृत्तिसङ्क्षये 003 युधिष्ठिर उवाच 003a कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते 003c ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ 004 भीष्म उवाच 004a सुरा लवणमित्येव तिलान्केसरिणः पशून् 004c ऋषभान्मधु मांसं च कृतान्नं च युधिष्ठिर 005a सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत् 005c एतेषां विक्रयात्तात ब्राह्मणो नरकं व्रजेत् 006a अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् 006c धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथञ्चन 007a पक्वेनामस्य निमयं न प्रशंसन्ति साधवः 007c निमयेत्पक्वमामेन भोजनार्थाय भारत 008a वयं सिद्धमशिष्यामो भवान्साधयतामिदम् 008c एवं समीक्ष्य निमयन्नाधर्मोऽस्ति कदाचन 009a अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः 009c व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर 010a भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु 010c रुचिते वर्तते धर्मो न बलात्सम्प्रवर्तते 011a इत्येवं सम्प्रवर्तन्त व्यवहाराः पुरातनाः 011c ऋषीणामितरेषां च साधु चेदमसंशयम् 012 युधिष्ठिर उवाच 012a अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः 012c व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् 013a राजा त्राता न लोके स्यात्किं तदा स्यात्परायणम् 013c एतन्मे संशयं ब्रूहि विस्तरेण पितामह 014 भीष्म उवाच 014a दानेन तपसा यज्ञैरद्रोहेण दमेन च 014c ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः 015a तेषां ये वेदबलिनस्त उत्थाय समन्ततः 015c राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः 016a राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम् 016c तस्माद्ब्रह्मबलेनैव समुत्थेयं विजानता 017a यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसन्दधेत् 017c तदा वर्णा यथाधर्ममाविशेयुः स्वकर्मसु 018a उन्मर्यादे प्रवृत्ते तु दस्युभिः सङ्करे कृते 018c सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर 019 युधिष्ठिर उवाच 019a अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणान्प्रति 019c कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम् 020 भीष्म उवाच 020a तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च 020c अमायया मायया च नियन्तव्यं तदा भवेत् 021a क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः 021c ब्रह्मैव सन्नियन्तृ स्यात्क्षत्रं हि ब्रह्मसम्भवम् 022a अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् 022c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 023a यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिपद्यते 023c क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः 024a तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर 024c समुदीर्णान्यजेयानि तेजांसि च बलानि च 025a ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले 025c दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति सर्वशः 026a ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः 026c ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च 027a मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते 027c ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते 028a अति स्विष्टस्वधीतानां लोकानति तपस्विनाम् 028c अनाशकाग्न्योर्विशतां शूरा यान्ति परां गतिम् 028e एवमेवात्मनस्त्यागान्नान्यं धर्मं विदुर्जनाः 029a तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति 029c ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता 029e ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरब्रवीत् 030a यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत 030c दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे 031a भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि 031c कारणाद्देशकालस्य देशकालः स तादृशः 032a मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम् 032c धर्म्याः पापानि कुर्वन्तो गच्छन्ति परमां गतिम् 033a ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति 033c आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च 034 युधिष्ठिर उवाच 034a अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसङ्करे 034c सम्प्रमूढेषु वर्णेषु यद्यन्योऽभिभवेद्बली 035a ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम 035c दस्युभ्योऽथ प्रजा रक्षेद्दण्डं धर्मेण धारयन् 036a कार्यं कुर्यान्न वा कुर्यात्संवार्यो वा भवेन्न वा 036c न स्म शस्त्रं ग्रहीतव्यमन्यत्र क्षत्रबन्धुतः 037 भीष्म उवाच 037a अपारे यो भवेत्पारमप्लवे यः प्लवो भवेत् 037c शूद्रो वा यदि वाप्यन्यः सर्वथा मानमर्हति 038a यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम् 038c अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः 039a तमेव पूजयेरंस्ते प्रीत्या स्वमिव बान्धवम् 039c महद्ध्यभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति 040a किमुक्ष्णावहता कृत्यं किं धेन्वा चाप्यदुग्धया 040c वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाप्यरक्षता 041a यथा दारुमयो हस्ती यथा चर्ममयो मृगः 041c यथा ह्यनेत्रः शकटः पथि क्षेत्रं यथोषरम् 042a एवं ब्रह्मानधीयानं राजा यश्च न रक्षिता 042c न वर्षति च यो मेघः सर्व एते निरर्थकाः 043a नित्यं यस्तु सतो रक्षेदसतश्च निबर्हयेत् 043c स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्