001 युधिष्ठिर उवाच 001a केषां राजा प्रभवति वित्तस्य भरतर्षभ 001c कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् 002c ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत 003a विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथञ्चन 003c इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः 004a यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः 004c राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप 005a अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा 005c तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् 006a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 006c गीतं केकयराजेन ह्रियमाणेन रक्षसा 007a केकयानामधिपतिं रक्षो जग्राह दारुणम् 007c स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् 008 राजोवाच 008a न मे स्तेनो जनपदे न कदर्यो न मद्यपः 008c नानाहिताग्निर्नायज्वा मामकान्तरमाविशः 009a न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः 009c नानाहिताग्निर्विषये मामकान्तरमाविशः 010a नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम 010c अधीते नाव्रती कश्चिन्मामकान्तरमाविशः 011a अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च 011c ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः 012a पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः 012c ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः 013a न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः 013c नाध्यापयन्त्यधीयन्ते यजन्ते न च याजकाः 014a ब्राह्मणान्परिरक्षन्ति सङ्ग्रामेष्वपलायिनः 014c क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः 015a कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया 015c अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः 016a संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः 016c मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः 017a त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाः 017c मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः 018a कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् 018c संविभक्तास्मि सर्वेषां मामकान्तरमाविशः 019a कुलदेशादिधर्माणां प्रथितानां यथाविधि 019c अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः 020a तपस्विनो मे विषये पूजिताः परिपालिताः 020c संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः 021a नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम् 021c स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः 022a नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकः 022c अनृत्विजं हुतं नास्ति मामकान्तरमाविशः 023a नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः 023c राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः 024a वेदाध्ययनसम्पन्नस्तपस्वी सर्वधर्मवित् 024c स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः 025a दानेन दिव्यानभिवाञ्छामि लोकान्सत्येनाथो ब्राह्मणानां च गुप्त्या 025c शुश्रूषया चापि गुरूनुपैमि न मे भयं विद्यते राक्षसेभ्यः 026a न मे राष्ट्रे विधवा ब्रह्मबन्धु;र्न ब्राह्मणः कृपणो नोत चोरः 026c न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः 027a न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम् 027c धर्मार्थं युध्यमानस्य मामकान्तरमाविशः 028a गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम 028c आशासते जना राष्ट्रे मामकान्तरमाविशः 029 राक्षस उवाच 029a यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे 029c तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम् 030a येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय 030c न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् 031a येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम् 031c प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः 032 भीष्म उवाच 032a तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः 032c आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते 033a तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः 033c नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् 034a य एवं वर्तते राजा पौरजानपदेष्विह 034c अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्