001 युधिष्ठिर उवाच 001a स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि 001c तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह 002 भीष्म उवाच 002a विद्यालक्षणसम्पन्नाः सर्वत्राम्नायदर्शिनः 002c एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः 003a ऋत्विगाचार्यसम्पन्नाः स्वेषु कर्मस्ववस्थिताः 003c एते देवसमा राजन्ब्राह्मणानां भवन्त्युत 004a ऋत्विक्पुरोहितो मन्त्री दूतोऽथार्थानुशासकः 004c एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत 005a अश्वारोहा गजारोहा रथिनोऽथ पदातयः 005c एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत 006a जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः 006c एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत 007a अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः 007c तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत् 008a आह्वायका देवलका नक्षत्रग्रामयाजकाः 008c एते ब्राह्मणचण्डाला महापथिकपञ्चमाः 009a एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः 009c ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च 010a अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् 010c ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत 011a विकर्मस्थास्तु नोपेक्ष्या जातु राज्ञा कथञ्चन 011c नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया 012a यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः 012c राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः 013a अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा 013c राजन्स राज्ञा भर्तव्य इति धर्मविदो विदुः 014a स चेन्नो परिवर्तेत कृतवृत्तिः परन्तप 014c ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः