001 युधिष्ठिर उवाच 001a यया वृत्त्या महीपालो विवर्धयति मानवान् 001c पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a दानशीलो भवेद्राजा यज्ञशीलश्च भारत 002c उपवासतपःशीलः प्रजानां पालने रतः 003a सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयेत् 003c उत्थानेनाप्रमादेन पूजयेच्चैव धार्मिकान् 004a राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते 004c यद्यदाचरते राजा तत्प्रजानां हि रोचते 005a नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु 005c निहन्यात्सर्वतो दस्यून्न कामात्कस्यचित्क्षमेत् 006a यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः 006c चतुर्थं तस्य धर्मस्य राजा भारत विन्दति 007a यदधीते यद्यजते यद्ददाति यदर्चति 007c राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन् 008a यद्राष्ट्रेऽकुशलं किञ्चिद्राज्ञोऽरक्षयतः प्रजाः 008c चतुर्थं तस्य पापस्य राजा भारत विन्दति 009a अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः 009c कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि 009e तादृशात्किल्बिषाद्राजा शृणु येन प्रमुच्यते 010a प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि 010c स्वकोशात्तत्प्रदेयं स्यादशक्तेनोपजीवता 011a सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास्तथा 011c न स्थेयं विषये तेषु योऽपकुर्याद्द्विजातिषु 012a ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम् 012c तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः 013a पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः 013c नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम् 014a न हि कामात्मना राज्ञा सततं शठबुद्धिना 014c नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः 015 युधिष्ठिर उवाच 015a नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम् 015c धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते 016a तदलं मम राज्येन यत्र धर्मो न विद्यते 016c वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया 017a तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः 017c धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः 018 भीष्म उवाच 018a वेदाहं तव या बुद्धिरानृशंस्यगुणैव सा 018c न च शुद्धानृशंस्येन शक्यं महदुपासितुम् 019a अपि तु त्वा मृदुं दान्तमत्यार्यमतिधार्मिकम् 019c क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते 020a राजधर्मानवेक्षस्व पितृपैतामहोचितान् 020c नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि 021a न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः 021c प्रजापालनसम्भूतं प्राप्ता धर्मफलं ह्यसि 022a न ह्येतामाशिषं पाण्डुर्न च कुन्त्यन्वयाचत 022c न चैतां प्राज्ञतां तात यया चरसि मेधया 023a शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत् 023c माहात्म्यं बलमौदार्यं तव कुन्त्यन्वयाचत 024a नित्यं स्वाहा स्वधा नित्यमुभे मानुषदैवते 024c पुत्रेष्वाशासते नित्यं पितरो दैवतानि च 025a दानमध्ययनं यज्ञः प्रजानां परिपालनम् 025c धर्ममेतमधर्मं वा जन्मनैवाभ्यजायिथाः 026a काले धुरि नियुक्तानां वहतां भार आहिते 026c सीदतामपि कौन्तेय न कीर्तिरवसीदति 027a समन्ततो विनियतो वहत्यस्खलितो हि यः 027c निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा 028a नैकान्तविनिपातेन विचचारेह कश्चन 028c धर्मी गृही वा राजा वा ब्रह्मचार्यथ वा पुनः 029a अल्पं तु साधुभूयिष्ठं यत्कर्मोदारमेव तत् 029c कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः 030a यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम् 030c योगक्षेमस्तदा राजन्कुशलायैव कल्पते 031a दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा 031c सर्वतः परिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः 032a यं हि वैद्याः कुले जाता अवृत्तिभयपीडिताः 032c प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः 033 युधिष्ठिर उवाच 033a किं न्वतः परमं स्वर्ग्यं का न्वतः प्रीतिरुत्तमा 033c किं न्वतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे 034 भीष्म उवाच 034a यस्मिन्प्रतिष्ठिताः सम्यक्क्षेमं विन्दन्ति तत्क्षणम् 034c स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते 035a त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम 035c भव राजा जय स्वर्गं सतो रक्षासतो जहि 036a अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह 036c पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः 037a धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम् 037c वत्सलं संविभक्तारमनु जीवन्तु त्वां जनाः