001 भीष्म उवाच 001a योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते 001c योगक्षेमश्च राज्ञोऽपि समायत्तः पुरोहिते 002a यतादृष्टं भयं ब्रह्म प्रजानां शमयत्युत 002c दृष्टं च राजा बाहुभ्यां तद्राष्ट्रं सुखमेधते 003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003c मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च 004a मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः 004c जिज्ञासमानः स्वबलमभ्ययादलकाधिपम् 005a ततो वैश्रवणो राजा रक्षांसि समवासृजत् 005c ते बलान्यवमृद्नन्तः प्राचरंस्तस्य नैर्ऋताः 006a स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः 006c गर्हयामास विद्वांसं पुरोहितमरिन्दमः 007a तत उग्रं तपस्तप्त्वा वसिष्ठो ब्रह्मवित्तमः 007c रक्षांस्यपावधीत्तत्र पन्थानं चाप्यविन्दत 008a ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत् 008c वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् 009a त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः 009c न चैवं समवर्तंस्ते यथा त्वमिह वर्तसे 010a ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः 010c आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः 011a यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि 011c किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे 012a मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम् 012c न्यायपूर्वमसंरब्धमसम्भ्रान्तमिदं वचः 013a ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयम्भुवा 013c पृथग्बलविधानं च तल्लोकं परिरक्षति 014a तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् 014c अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् 015a ताभ्यां सम्भूय कर्तव्यं प्रजानां परिपालनम् 015c तथा च मां प्रवर्तन्तं गर्हयस्यलकाधिप 016a ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम् 016c नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत 017a नाच्छिन्दे चापि निर्दिष्टमिति जानीहि पार्थिव 017c प्रशाधि पृथिवीं वीर मद्दत्तामखिलामिमाम् 018 मुचुकुन्द उवाच 018a नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव 018c बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये 019 भीष्म उवाच 019a ततो वैश्रवणो राजा विस्मयं परमं ययौ 019c क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसम्भ्रमम् 020a ततो राजा मुचुकुन्दः सोऽन्वशासद्वसुन्धराम् 020c बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः 021a एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते 021c जयत्यविजितामुर्वीं यशश्च महदश्नुते 022a नित्योदको ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः 022c तयोर्हि सर्वमायत्तं यत्किञ्चिज्जगतीगतम्