001 भीष्म उवाच 001a राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः 001c उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् 002a धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितः 002c राजा चैवं गुणो येषां कुशलं तेषु सर्वशः 003a उभौ प्रजा वर्धयतो देवान्पूर्वान्परान्पितॄन् 003c यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ 004a परस्परस्य सुहृदौ सम्मतौ समचेतसौ 004c ब्रह्मक्षत्रस्य सम्मानात्प्रजाः सुखमवाप्नुयुः 005a विमाननात्तयोरेव प्रजा नश्येयुरेव ह 005c ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलमुच्यते 006a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 006c ऐलकश्यपसंवादं तं निबोध युधिष्ठिर 007 ऐल उवाच 007a यदा हि ब्रह्म प्रजहाति क्षत्रं क्षत्रं यदा वा प्रजहाति ब्रह्म 007c अन्वग्बलं कतमेऽस्मिन्भजन्ते तथाबल्यं कतमेऽस्मिन्वियन्ति 008 कश्यप उवाच 008a व्यृद्धं राष्ट्रं भवति क्षत्रियस्य ब्रह्म क्षत्रं यत्र विरुध्यते ह 008c अन्वग्बलं दस्यवस्तद्भजन्तेऽबल्यं तथा तत्र वियन्ति सन्तः 009a नैषामुक्षा वर्धते नोत उस्रा न गर्गरो मथ्यते नो यजन्ते 009c नैषां पुत्रा वेदमधीयते च यदा ब्रह्म क्षत्रियाः सन्त्यजन्ति 010a नैषामुक्षा वर्धते जातु गेहे नाधीयते सप्रजा नो यजन्ते 010c अपध्वस्ता दस्युभूता भवन्ति ये ब्राह्मणाः क्षत्रियान्सनत्यजन्ति 011a एतौ हि नित्यसंयुक्तावितरेतरधारणे 011c क्षत्रं हि ब्रह्मणो योनिर्योनिः क्षत्रस्य च द्विजाः 012a उभावेतौ नित्यमभिप्रपन्नौ सम्प्रापतुर्महतीं श्रीप्रतिष्ठाम् 012c तयोः सन्धिर्भिद्यते चेत्पुराणस्ततः सर्वं भवति हि सम्प्रमूढम् 013a नात्र प्लवं लभते पारगामी महागाधे नौरिव सम्प्रणुन्ना 013c चातुर्वर्ण्यं भवति च सम्प्रमूढं ततः प्रजाः क्षयसंस्था भवन्ति 014a ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति 014c अरक्ष्यमाणः सततमश्रु पापं च वर्षति 015a अब्रह्मचारी चरणादपेतो यदा ब्रह्मा ब्रह्मणि त्राणमिच्छेत् 015c आश्चर्यशो वर्षति तत्र देवस्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति 016a स्त्रियं हत्वा ब्राह्मणं वापि पापः सभायां यत्र लभतेऽनुवादम् 016c राज्ञः सकाशे न बिभेति चापि ततो भयं जायते क्षत्रियस्य 017a पापैः पापे क्रियमाणेऽतिवेलं ततो रुद्रो जायते देव एषः 017c पापैः पापाः सञ्जनयन्ति रुद्रं ततः सर्वान्साध्वसाधून्हिनस्ति 018 ऐल उवाच 018a कुतो रुद्रः कीदृशो वापि रुद्रः सत्त्वैः सत्त्वं दृश्यते वध्यमानम् 018c एतद्विद्वन्कश्यप मे प्रचक्ष्व यतो रुद्रो जायते देव एषः 019 कश्यप उवाच 019a आत्मा रुद्रो हृदये मानवानां स्वं स्वं देहं परदेहं च हन्ति 019c वातोत्पातैः सदृशं रुद्रमाहुर्दावैर्जीमूतैः सदृशं रूपमस्य 020 ऐल उवाच 020a न वै वातं परिवृनोति कश्चिन्न जीमूतो वर्षति नैव दावः 020c तथायुक्तो दृश्यते मानवेषु कामद्वेषाद्बध्यते मुच्यते च 021 कश्यप उवाच 021a यथैकगेहे जातवेदाः प्रदीप्तः कृत्स्नं ग्रामं प्रदहेत्स त्वरावान् 021c विमोहनं कुरुते देव एष ततः सर्वं स्पृश्यते पुण्यपापैः 022 ऐल उवाच 022a यदि दण्डः स्पृशते पुण्यभाजं पापैः पापे क्रियमाणेऽविशेषात् 022c कस्य हेतोः सुकृतं नाम कुर्याद्दुष्कृतं वा कस्य हेतोर्न कुर्यात् 023 कश्यप उवाच 023a असन्त्यागात्पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् 023c शुष्केणार्द्रं दह्यते मिश्रभावान्न मिश्रः स्यात्पापकृद्भिः कथञ्चित् 024 ऐल उवाच 024a साध्वसाधून्धारयतीह भूमिः साध्वसाधूंस्तापयतीह सूर्यः 024c साध्वसाधून्वातयतीह वायुरापस्तथा साध्वसाधून्वहन्ति 025 कश्यप उवाचxxxx 025a एवमस्मिन्वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्र 025c प्रेत्यैतयोरन्तरवान्विशेषो; यो वै पुण्यं चरते यश्च पापम् 026a पुण्यस्य लोको मधुमान्घृतार्चि;र्हिरण्यज्योतिरमृतस्य नाभिः 026c तत्र प्रेत्य मोदते ब्रह्मचारी; न तत्र मृत्युर्न जरा नोत दुःखम् 027a पापस्य लोको निरयोऽप्रकाशो; नित्यं दुःखः शोकभूयिष्ठ एव 027c तत्रात्मानं शोचते पापकर्मा; बह्वीः समाः प्रपतन्नप्रतिष्ठः 028a मिथो भेदाद्ब्राह्मणक्षत्रियाणां; प्रजा दुःखं दुःसहं चाविशन्ति 028c एवं ज्ञात्वा कार्य एवेह विद्वा;न्पुरोहितो नैकविद्यो नृपेण 029a तं चैवान्वभिषिच्येत तथा धर्मो विधीयते 029c अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः 030a पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः 030c ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यदुत्तरम् 031a तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक् 031c सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः 032a अवश्यमेतत्कर्तव्यं राज्ञा बलवतापि हि 032c ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते