001 भीष्म उवाच 001a य एव तु सतो रक्षेदसतश्च निबर्हयेत् 001c स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c पुरूरवस ऐलस्य संवादं मातरिश्वनः 003 ऐल उवाच 003a कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः 003c कस्माच्च भवति श्रेयानेतद्वायो विचक्ष्व मे 004 वायुरुवाच 004a ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम 004c बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते 005a वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ 005c वर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः 006a ब्राह्मणो जातमात्रस्तु पृथिवीमन्वजायत 006c ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये 007a ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम् 007c द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये 008a वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान् 008c शूद्रो ह्येनान्परिचरेदिति ब्रह्मानुशासनम् 009 ऐल उवाच 009a द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत् 009c धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे 010 वायुरुवाच 010a विप्रस्य सर्वमेवैतद्यत्किञ्चिज्जगतीगतम् 010c ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः 011a स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च 011c गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः 012a पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम् 012c आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम् 013a एष ते प्रथमः कल्प आपद्यन्यो भवेदतः 013c यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि 014a यः कश्चिद्विजयेद्भूमिं ब्राह्मणाय निवेदयेत् 014c श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने 015a स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् 015c यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया 016a ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक् 016c श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम् 017a राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् 017c शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः 018a तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति 018c तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः 019a एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः 019c सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः 020a राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः 020c चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति 021a देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः 021c यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके 022a इतो दत्तेन जीवन्ति देवताः पितरस्तथा 022c राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः 023a छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति 023c अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति 024a शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः 024c तेषु भोगेषु सर्वेषु नभीतो लभते सुखम् 025a अभयस्यैव यो दाता तस्यैव सुमहत्फलम् 025c न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते 026a इन्द्रो राजा यमो राजा धर्मो राजा तथैव च 026c राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम्