001 युधिष्ठिर उवाच 001a कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते 001c धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान् 002c विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात् 003a धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान् 003c अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् 004a प्रत्युत्थायोपसङ्गृह्य चरणावभिवाद्य च 004c अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः 005a धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च 005c ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः 006a आर्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत 006c अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत् 007a कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति 007c न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः 008a मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजः 008c अलुब्धान्बुद्धिसम्पन्नान्सर्वकर्मसु योजयेत् 009a मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः 009c प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः 010a बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् 010c शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् 011a दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि 011c अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः 012a गोपायितारं दातारं धर्मनित्यमतन्द्रितम् 012c अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः 013a मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम् 013c धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत् 014a अपशास्त्रपरो राजा सञ्चयान्नाधिगच्छति 014c अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति 015a अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनः 015c करैरशास्त्रदृष्टैर्हि मोहात्सम्पीडयन्प्रजाः 016a ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः 016c एवं राष्ट्रमयोगेन पीडितं न विवर्धते 017a यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयः 017c एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् 018a अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम् 018c जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर 019a दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता 019c नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः 020a मालाकारोपमो राजन्भव माङ्गारिकोपमः 020c तथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन् 021a परचक्राभियानेन यदि ते स्याद्धनक्षयः 021c अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् 022a मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः 022c अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत 023a धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः 023c सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् 024a एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन् 024c स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन 025a धर्मेण व्यवहारेण प्रजाः पालय पाण्डव 025c युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे 026a एष एव परो धर्मो यद्राजा रक्षते प्रजाः 026c भूतानां हि यथा धर्मे रक्षणं च परा दया 027a तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः 027c यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् 028a यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः 028c राजा वर्षसहस्रेण तस्यान्तमधिगच्छति 029a यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन् 029c दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि 030a स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः 030c क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् 031a एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन् 031c इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे 032a स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव 032c असम्भवश्च धर्माणामीदृशानामराजसु 032e तस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात् 033a स राज्यमृद्धिमत्प्राप्य धर्मेण परिपालयन् 033c इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान्