001 युधिष्ठिर उवाच 001a केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः 001c सुखेनार्थान्सुखोदर्कानिह च प्रेत्य चाप्नुयात् 002 भीष्म उवाच 002a इयं गुणानां षट्त्रिंशत्षट्त्रिंशद्गुणसंयुता 002c यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात् 003a चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न नास्तिकः 003c अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः 004a प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः 004c दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः 005a सन्दधीत न चानार्यैर्विगृह्णीयान्न बन्धुभिः 005c नानाप्तैः कारयेच्चारं कुर्यात्कार्यमपीडया 006a अर्थान्ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः 006c आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् 007a नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् 007c विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु 008a अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः 008c स्त्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् 009a अस्तब्धः पूजयेन्मान्यान्गुरून्सेवेदमायया 009c अर्चेद्देवान्न दम्भेन श्रियमिच्छेदकुत्सिताम् 010a सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित् 010c सान्त्वयेन्न च भोगार्थमनुगृह्णन्न चाक्षिपेत् 011a प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शेषयेत् 011c क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु 012a एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि 012c अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम् 013a इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते 013c अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते 014 वैशम्पायन उवाच 014a इदं वचः शान्तनवस्य शुश्रुवान्युधिष्ठिरः पाण्डवमुख्यसंवृतः 014c तदा ववन्दे च पितामहं नृपो यथोक्तमेतच्च चकार बुद्धिमान्