001 युधिष्ठिर उवाच 001a दण्डनीतिश्च राजा च समस्तौ तावुभावपि 001c कस्य किं कुर्वतः सिद्ध्यै तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः 002c शृणु मे शंसतो राजन्यथावदिह भारत 003a दण्डनीतिः स्वधर्मेभ्यश्चातुर्वर्ण्यं नियच्छति 003c प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति 004a चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसङ्करे 004c दण्डनीतिकृते क्षेमे प्रजानामकुतोभये 005a सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि 005c तस्माद्देवमनुष्याणां सुखं विद्धि समाहितम् 006a कालो वा कारणं राज्ञो राजा वा कालकारणम् 006c इति ते संशयो मा भूद्राजा कालस्य कारणम् 007a दण्डनीत्या यदा राजा सम्यक्कार्त्स्न्येन वर्तते 007c तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते 008a भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित् 008c सर्वेषामेव वर्णानां नाधर्मे रमते मनः 009a योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः 009c वैदिकानि च कर्माणि भवन्त्यविगुणान्युत 010a ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः 010c प्रसीदन्ति नराणां च स्वरवर्णमनांसि च 011a व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः 011c विधवा न भवन्त्यत्र नृशंसो नाभिजायते 012a अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा 012c त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च 013a नाधर्मो विद्यते तत्र धर्म एव तु केवलः 013c इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर 014a दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते 014c चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते 015a अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्तते 015c कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा 016a अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते 016c ततस्तु द्वापरं नाम स कालः सम्प्रवर्तते 017a अशुभस्य तदा अर्धं द्वावंशावनुवर्तते 017c कृष्टपच्यैव पृथिवी भवत्यल्पफला तथा 018a दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः 018c प्रजाः क्लिश्नात्ययोगेन प्रविश्यति तदा कलिः 019a कलावधर्मो भूयिष्ठं धर्मो भवति तु क्वचित् 019c सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः 020a शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया 020c योगक्षेमस्य नाशश्च वर्तते वर्णसङ्करः 021a वैदिकानि च कर्माणि भवन्ति विगुणान्युत 021c ऋतवो नसुखाः सर्वे भवन्त्यामयिनस्तथा 022a ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत 022c व्याधयश्च भवन्त्यत्र म्रियन्ते चागतायुषः 023a विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा 023c क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति 024a रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः 024c प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः 025a राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च 025c युगस्य च चतुर्थस्य राजा भवति कारणम् 026a कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते 026c त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते 027a प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते 027c कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते 028a ततो वसति दुष्कर्मा नरके शाश्वतीः समाः 028c प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति 029a दण्डनीतिं पुरस्कृत्य विजानन्क्षत्रियः सदा 029c अनवाप्तं च लिप्सेत लब्धं च परिपालयेत् 030a लोकस्य सीमन्तकरी मर्यादा लोकभावनी 030c सम्यङ्नीता दण्डनीतिर्यथा माता यथा पिता 031a यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ 031c एष एव परो धर्मो यद्राजा दण्डनीतिमान् 032a तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान् 032c एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम्