001 युधिष्ठिर उवाच 001a पार्थिवेन विशेषेण किं कार्यमवशिष्यते 001c कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः 002a कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम् 002c कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत 003 भीष्म उवाच 003a राजवृत्तं महाराज शृणुष्वावहितोऽखिलम् 003c यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा 004a आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः 004c अजितात्मा नरपतिर्विजयेत कथं रिपून् 005a एतावानात्मविजयः पञ्चवर्गविनिग्रहः 005c जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन् 006a न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन 006c नगरोपवने चैव पुरोद्यानेषु चैव ह 007a संस्थानेषु च सर्वेषु पुरेषु नगरस्य च 007c मध्ये च नरशार्दूल तथा राजनिवेशने 008a प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन् 008c पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान् 009a अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च 009c पुत्रेषु च महाराज प्रणिदध्यात्समाहितः 010a पुरे जनपदे चैव तथा सामन्तराजसु 010c यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते 011a चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ 011c आपणेषु विहारेषु समवायेषु भिक्षुषु 012a आरामेषु तथोद्याने पण्डितानां समागमे 012c वेशेषु चत्वरे चैव सभास्वावसथेषु च 013a एवं विहन्याच्चारेण परचारं विचक्षणः 013c चारेण विहतं सर्वं हतं भवति पाण्डव 014a यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना 014c अमात्यैः सह सम्मन्त्र्य कुर्यात्सन्धिं बलीयसा 015a अज्ञायमानो हीनत्वे कुर्यात्सन्धिं परेण वै 015c लिप्सुर्वा कञ्चिदेवार्थं त्वरमाणो विचक्षणः 016a गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये 016c सन्दधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् 017a उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः 017c पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः 018a यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः 018c अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् 019a यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम् 019c व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः 020a यात्रामाज्ञापयेद्वीरः कल्यपुष्टबलः सुखी 020c पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा 021a न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान् 021c हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत् 022a राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्छनैः 022c अमात्यवल्लभानां च विवादांस्तस्य कारयेत् 022e वर्जनीयं सदा युद्धं राज्यकामेन धीमता 023a उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः 023c सान्त्वेनानुप्रदानेन भेदेन च नराधिप 023e यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येद्धि पण्डितः 024a आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन 024c षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये 025a दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च 025c तन्नाददीत सहसा पौराणां रक्षणाय वै 026a यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः 026c भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते 027a सुतं च स्थापयेद्राजा प्राज्ञं सर्वार्थदर्शिनम् 027c व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् 028a आकरे लवणे शुल्के तरे नागवने तथा 028c न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् 029a सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात् 029c नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते 030a वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् 030c दानशीलश्च सततं यज्ञशीलश्च भारत 031a एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः 031c क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः 032a यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा 032c त्रिधा त्वाक्रन्द्य मित्राणि विधानमुपकल्पयेत् 033a घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि 033c प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि 034a ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् 034c धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः 035a सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः 035c असम्भवे प्रवेशस्य दाहयेदग्निना भृशम् 036a क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् 036c विनाशयेद्वा सर्वस्वं बलेनाथ स्वकेन वै 037a नदीषु मार्गेषु सदा सङ्क्रमानवसादयेत् 037c जलं निस्रावयेत्सर्वमनिस्राव्यं च दूषयेत् 038a तदात्वेनायतीभिश्च विवदन्भूम्यनन्तरम् 038c प्रतीघातः परस्याजौ मित्रकालेऽप्युपस्थिते 039a दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् 039c सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् 040a प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत्तथा 040c चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम् 041a प्रकण्ठीः कारयेत्सम्यगाकाशजननीस्तथा 041c आपूरयेच्च परिखाः स्थाणुनक्रझषाकुलाः 042a कडङ्गद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य ह 042c तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् 043a द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा 043c आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् 044a काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत् 044c संशोधयेत्तथा कूपान्कृतान्पूर्वं पयोर्थिभिः 045a तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत् 045c निर्हरेच्च तृणं मासे चैत्रे वह्निभयात्पुरः 046a नक्तमेव च भक्तानि पाचयेत नराधिपः 046c न दिवाग्निर्ज्वलेद्गेहे वर्जयित्वाग्निहोत्रिकम् 047a कर्मारारिष्टशालासु ज्वलेदग्निः समाहितः 047c गृहाणि च प्रविश्याथ विधेयः स्याद्धुताशनः 048a महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् 048c प्रघोषयेदथैवं च रक्षणार्थं पुरस्य वै 049a भिक्षुकांश्चाक्रिकांश्चैव क्षीबोन्मत्तान्कुशीलवान् 049c बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा 050a चत्वरेषु च तीर्थेषु सभास्वावसथेषु च 050c यथार्हवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः 051a विशालान्राजमार्गांश्च कारयेत नराधिपः 051c प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् 052a भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः 052c अश्वागारान्गजागारान्बलाधिकरणानि च 053a परिखाश्चैव कौरव्य प्रतोलीः सङ्कटानि च 053c न जातु कश्चित्पश्येत्तु गुह्यमेतद्युधिष्ठिर 054a अथ सन्निचयं कुर्याद्राजा परबलार्दितः 054c तैलं मधु घृतं सस्यमौषधानि च सर्वशः 055a अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम् 055c यवसेन्धनदिग्धानां कारयेत च सञ्चयान् 056a आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम् 056c सञ्चयानेवमादीनां कारयेत नराधिपः 057a औषधानि च सर्वाणि मूलानि च फलानि च 057c चतुर्विधांश्च वैद्यान्वै सङ्गृह्णीयाद्विशेषतः 058a नटाश्च नर्तकाश्चैव मल्ला मायाविनस्तथा 058c शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः 059a यतः शङ्का भवेच्चापि भृत्यतो वापि मन्त्रितः 059c पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् 060a कृते कर्मणि राजेन्द्र पूजयेद्धनसञ्चयैः 060c मानेन च यथार्हेण सान्त्वेन विविधेन च 061a निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन 061c गतानृण्यो भवेद्राजा यथा शास्त्रेषु दर्शितम् 062a राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे 062c आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव हि 063a तथा जनपदश्चैव पुरं च कुरुनन्दन 063c एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः 064a षाड्गुण्यं च त्रिवर्गं च त्रिवर्गमपरं तथा 064c यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीमिमाम् 065a षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर 065c सन्धायासनमित्येव यात्रासन्धानमेव च 066a विगृह्यासनमित्येव यात्रां सम्परिगृह्य च 066c द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च 067a त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु 067c क्षयः स्थानं च वृद्धिश्च त्रिवर्गमपरं तथा 068a धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः 068c धर्मेण हि महीपालश्चिरं पालयते महीम् 069a अस्मिन्नर्थे च यौ श्लोकौ गीतावङ्गिरसा स्वयम् 069c यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि 070a कृत्वा सर्वाणि कार्याणि सम्यक्सम्पाल्य मेदिनीम् 070c पालयित्वा तथा पौरान्परत्र सुखमेधते 071a किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि 071c अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः