001 युधिष्ठिर उवाच 001a किमाहुर्दैवतं विप्रा राजानं भरतर्षभ 001c मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c बृहस्पतिं वसुमना यथा पप्रच्छ भारत 003a राजा वसुमना नाम कौसल्यो धीमतां वरः 003c महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम् 004a सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः 004c दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् 005a विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः 005c प्रजानां हितमन्विच्छन्धर्ममूलं विशाम्पते 006a केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च 006c कमर्चन्तो महाप्राज्ञ सुखमत्यन्तमाप्नुयुः 007a इति पृष्टो महाराज्ञा कौसल्येनामितौजसा 007c राजसत्कारमव्यग्रः शशंसास्मै बृहस्पतिः 008a राजमूलो महाराज धर्मो लोकस्य लक्ष्यते 008c प्रजा राजभयादेव न खादन्ति परस्परम् 009a राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् 009c प्रसादयति धर्मेण प्रसाद्य च विराजते 010a यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः 010c अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् 011a यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः 011c विहरेयुर्यथाकाममभिसृत्य पुनः पुनः 012a विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम् 012c अभावमचिरेणैव गच्छेयुर्नात्र संशयः 013a एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः 013c अन्धे तमसि मज्जेयुरगोपाः पशवो यथा 014a हरेयुर्बलवन्तो हि दुर्बलानां परिग्रहान् 014c हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् 015a यानं वस्त्रमलङ्कारान्रत्नानि विविधानि च 015c हरेयुः सहसा पापा यदि राजा न पालयेत् 016a ममेदमिति लोकेऽस्मिन्न भवेत्सम्परिग्रहः 016c विश्वलोपः प्रवर्तेत यदि राजा न पालयेत् 017a मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् 017c क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत् 018a पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु 018c अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् 019a वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत् 019c ममत्वं च न विन्देयुर्यदि राजा न पालयेत् 020a अन्तश्चाकाशमेव स्याल्लोकोऽयं दस्युसाद्भवेत् 020c पतेच्च नरकं घोरं यदि राजा न पालयेत् 021a न योनिपोषो वर्तेत न कृषिर्न वणिक्पथः 021c मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् 022a न यज्ञाः सम्प्रवर्तेरन्विधिवत्स्वाप्तदक्षिणाः 022c न विवाहाः समाजा वा यदि राजा न पालयेत् 023a न वृषाः सम्प्रवर्तेरन्न मथ्येरंश्च गर्गराः 023c घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् 024a त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् 024c क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् 025a न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः 025c विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् 026a ब्राह्मणाश्चतुरो वेदान्नाधीयेरंस्तपस्विनः 026c विद्यास्नातास्तपःस्नाता यदि राजा न पालयेत् 027a हस्तो हस्तं स मुष्णीयाद्भिद्येरन्सर्वसेतवः 027c भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत् 028a न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः 028c कर्ता स्वेच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत् 029a अनयाः सम्प्रवर्तेरन्भवेद्वै वर्णसङ्करः 029c दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् 030a विवृत्य हि यथाकामं गृहद्वाराणि शेरते 030c मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः 031a नाक्रुष्टं सहते कश्चित्कुतो हस्तस्य लङ्घनम् 031c यदि राजा मनुष्येषु त्राता भवति धार्मिकः 032a स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः 032c निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः 033a धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम् 033c अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः 034a यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः 034c युक्ताश्चाधीयते शास्त्रं यदा रक्षति भूमिपः 035a वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा 035c तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः 036a यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः 036c महता बलयोगेन तदा लोकः प्रसीदति 037a यस्याभावे च भूतानामभावः स्यात्समन्ततः 037c भावे च भावो नित्यः स्यात्कस्तं न प्रतिपूजयेत् 038a तस्य यो वहते भारं सर्वलोकसुखावहम् 038c तिष्ठेत्प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत् 039a यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत् 039c असंशयमिह क्लिष्टः प्रेत्यापि नरकं पतेत् 040a न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः 040c महती देवता ह्येषा नररूपेण तिष्ठति 041a कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा 041c भवत्यग्निस्तथादित्यो मृत्युर्वैश्रवणो यमः 042a यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा 042c मिथ्योपचरितो राजा तदा भवति पावकः 043a यदा पश्यति चारेण सर्वभूतानि भूमिपः 043c क्षेमं च कृत्वा व्रजति तदा भवति भास्करः 044a अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान् 044c सपुत्रपौत्रान्सामात्यांस्तदा भवति सोऽन्तकः 045a यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति 045c धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा 046a यदा तु धनधाराभिस्तर्पयत्युपकारिणः 046c आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम् 047a श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति 047c तदा वैश्रवणो राजल्ँलोके भवति भूमिपः 048a नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा 048c धर्म्यमाकाङ्क्षता लाभमीश्वरस्यानसूयता 049a न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात् 049c पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत् 050a कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः 050c न तु राज्ञाभिपन्नस्य शेषं क्वचन विद्यते 051a तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् 051c मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः 052a नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन् 052c आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान् 053a महान्तं नरकं घोरमप्रतिष्ठमचेतसः 053c पतन्ति चिररात्राय राजवित्तापहारिणः 054a राजा भोजो विराट्सम्राट्क्षत्रियो भूपतिर्नृपः 054c य एवं स्तूयते शब्दैः कस्तं नार्चितुमिच्छति 055a तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः 055c मेधावी स्मृतिमान्दक्षः संश्रयेत महीपतिम् 056a कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् 056c धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन्नृपः 057a दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् 057c शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत् 058a राजा प्रगल्भं पुरुषं करोति राजा कृशं बृंहयते मनुष्यम् 058c राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करोति 059a राजा प्रजानां हृदयं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च 059c यमाश्रिता लोकमिमं परं च जयन्ति सम्यक्पुरुषा नरेन्द्रम् 060a नराधिपश्चाप्यनुशिष्य मेदिनीं दमेन सत्येन च सौहृदेन 060c महद्भिरिष्ट्वा क्रतुभिर्महायशास्त्रिविष्टपे स्थानमुपैति सत्कृतम् 061a स एवमुक्तो गुरुणा कौसल्यो राजसत्तमः 061c प्रयत्नात्कृतवान्वीरः प्रजानां परिपालनम्