001 युधिष्ठिर उवाच 001a चातुराश्रम्य उक्तोऽत्र चातुर्वर्ण्यस्तथैव च 001c राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम् 002c अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्ति च 003a अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते 003c परस्परं च खादन्ति सर्वथा धिगराजकम् 004a इन्द्रमेनं प्रवृणुते यद्राजानमिति श्रुतिः 004c यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता 005a नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम् 005c नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्यपि 006a अथ चेदभिवर्तेत राज्यार्थी बलवत्तरः 006c अराजकानि राष्ट्राणि हतराजानि वा पुनः 007a प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम् 007c न हि पापात्पापतरमस्ति किञ्चिदराजकात् 008a स चेत्समनुपश्येत समग्रं कुशलं भवेत् 008c बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि 009a भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा 009c सुदुहा या तु भवति नैव तां क्लेशयन्त्युत 010a यदतप्तं प्रणमति न तत्सन्तापयन्त्युत 010c यच्च स्वयं नतं दारु न तत्सन्नामयन्त्यपि 011a एतयोपमया धीरः सन्नमेत बलीयसे 011c इन्द्राय स प्रणमते नमते यो बलीयसे 012a तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता 012c न धनार्थो न दारार्थस्तेषां येषामराजकम् 013a प्रीयते हि हरन्पापः परवित्तमराजके 013c यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति 014a पापा अपि तदा क्षेमं न लभन्ते कदाचन 014c एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे 015a अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः 015c एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे 016a राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः 016c शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः 017a अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् 017c परस्परं भक्षयन्तो मत्स्या इव जले कृशान् 018a ताः समेत्य ततश्चक्रुः समयानिति नः श्रुतम् 018c वाक्क्रूरो दण्डपुरुषो यश्च स्यात्पारदारिकः 018e यश्च न स्वमथादद्यात्त्याज्या नस्तादृशा इति 019a विश्वासनार्थं वर्णानां सर्वेषामविशेषतः 019c तास्तथा समयं कृत्वा समये नावतस्थिरे 020a सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम् 020c अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश 021a यं पूजयेम सम्भूय यश्च नः परिपालयेत् 021c ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः 022 मनुरुवाच 022a बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम् 022c विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा 023 भीष्म उवाच 023a तमब्रुवन्प्रजा मा भैः कर्मणैनो गमिष्यति 023c पशूनामधिपञ्चाशद्धिरण्यस्य तथैव च 023e धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् 024a मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः 024c भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः 025a स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान् 025c सुखे धास्यसि नः सर्वान्कुबेर इव नैर्ऋतान् 026a यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः 026c चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति 027a तेन धर्मेण महता सुखलब्धेन भावितः 027c पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः 028a विजयायाशु निर्याहि प्रतपन्रश्मिमानिव 028c मानं विधम शत्रूणां धर्मो जयतु नः सदा 029a स निर्ययौ महातेजा बलेन महता वृतः 029c महाभिजनसम्पन्नस्तेजसा प्रज्वलन्निव 030a तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः 030c अपतत्रसिरे सर्वे स्वधर्मे च दधुर्मनः 031a ततो महीं परिययौ पर्जन्य इव वृष्टिमान् 031c शमयन्सर्वतः पापान्स्वकर्मसु च योजयन् 032a एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित् 032c कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् 033a नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा 033c देवा इव सहस्राक्षं प्रजा राजानमन्तिके 034a सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते 034c स्वजनेन त्ववज्ञातं परे परिभवन्त्युत 035a राज्ञः परैः परिभवः सर्वेषामसुखावहः 035c तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च 036a भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च 036c आसनानि च शय्याश्च सर्वोपकरणानि च 037a गुप्तात्मा स्याद्दुराधर्षः स्मितपूर्वाभिभाषिता 037c आभाषितश्च मधुरं प्रतिभाषेत मानवान् 038a कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः 038c ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च