001 युधिष्ठिर उवाच 001a श्रुता मे कथिताः पूर्वैश्चत्वारो मानवाश्रमाः 001c व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह 002 भीष्म उवाच 002a विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर 002c यथा मम महाबाहो विदिताः साधुसम्मताः 003a यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर 003c धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप 004a सर्वाण्येतानि कौन्तेय विद्यन्ते मनुजर्षभ 004c साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् 005a अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर 005c समेक्षिणश्च भूतेषु भैक्षाश्रमपदं भवेत् 006a वेत्त्यादानविसर्गं यो निग्रहानुग्रहौ तथा 006c यथोक्तवृत्तेर्वीरस्य क्षेमाश्रमपदं भवेत् 007a ज्ञातिसम्बन्धिमित्राणि व्यापन्नानि युधिष्ठिर 007c समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत् 008a आह्निकं भूतयज्ञांश्च पितृयज्ञांश्च मानुषान् 008c कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत् 009a पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात् 009c दीक्षा बहुविधा राज्ञो वन्याश्रमपदं भवेत् 010a वेदाध्ययननित्यत्वं क्षमाथाचार्यपूजनम् 010c तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् 011a अजिह्ममशठं मार्गं सेवमानस्य भारत 011c सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् 012a वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत 012c प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत् 013a सर्वभूतेष्वनुक्रोशं कुर्वतस्तस्य भारत 013c आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत् 014a बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर 014c अनुक्रोशं विदधतः सर्वावस्थं पदं भवेत् 015a बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह 015c शरणागतेषु कौरव्य कुर्वन्गार्हस्थ्यमावसेत् 016a चराचराणां भूतानां रक्षामपि च सर्वशः 016c यथार्हपूजां च सदा कुर्वन्गार्हस्थ्यमावसेत् 017a ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम् 017c निग्रहानुग्रहौ पार्थ गार्हस्थ्यमिति तत्तपः 018a साधूनामर्चनीयानां प्रजासु विदितात्मनाम् 018c पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् 019a आश्रमस्थानि सर्वाणि यस्तु वेश्मनि भारत 019c आददीतेह भोज्येन तद्गार्हस्थ्यं युधिष्ठिर 020a यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत् 020c आश्रमाणां स सर्वेषां फलं प्राप्नोत्यनुत्तमम् 021a यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा 021c आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर 022a स्थानमानं वयोमानं कुलमानं तथैव च 022c कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर 023a देशधर्मांश्च कौन्तेय कुलधर्मांस्तथैव च 023c पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् 024a काले विभूतिं भूतानामुपहारांस्तथैव च 024c अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत् 025a दशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते 025c सर्वलोकस्य कौन्तेय राजा भवति सोऽऽश्रमी 026a ये धर्मकुशला लोके धर्मं कुर्वन्ति साधवः 026c पालिता यस्य विषये पादोंऽशस्तस्य भूपतेः 027a धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान् 027c पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते 028a ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर 028c ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ 029a सर्वाश्रमपदे ह्याहुर्गार्हस्थ्यं दीप्तनिर्णयम् 029c पावनं पुरुषव्याघ्र यं वयं पर्युपास्महे 030a आत्मोपमस्तु भूतेषु यो वै भवति मानवः 030c न्यस्तदण्डो जितक्रोधः स प्रेत्य लभते सुखम् 031a धर्मोत्थिता सत्त्ववीर्या धर्मसेतुवटाकरा 031c त्यागवाताध्वगा शीघ्रा नौस्त्वा सन्तारयिष्यति 032a यदा निवृत्तः सर्वस्मात्कामो योऽस्य हृदि स्थितः 032c तदा भवति सत्त्वस्थस्ततो ब्रह्म समश्नुते 033a सुप्रसन्नस्तु भावेन योगेन च नराधिप 033c धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः 034a वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम् 034c पालने यत्नमातिष्ठ सर्वलोकस्य चानघ 035a वने चरति यो धर्ममाश्रमेषु च भारत 035c रक्षया तच्छतगुणं धर्मं प्राप्नोति पार्थिवः 036a एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः 036c अनुतिष्ठ त्वमेनं वै पूर्वैर्दृष्टं सनातनम् 037a चातुराश्रम्यमेकाग्रः चातुर्वर्ण्यं च पाण्डव 037c धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः