001 इन्द्र उवाच 001a एवंवीर्यः सर्वधर्मोपपन्नः क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः 001c पाल्यो युष्माभिर्लोकसिंहैरुदारैर्विपर्यये स्यादभावः प्रजानाम् 002a भुवः संस्कारं राजसंस्कारयोगमभैक्षचर्यां पालनं च प्रजानाम् 002c विद्याद्राजा सर्वभूतानुकम्पां देहत्यागं चाहवे धर्ममग्र्यम् 003a त्यागं श्रेष्ठं मुनयो वै वदन्ति सर्वश्रेष्ठो यः शरीरं त्यजेत 003c नित्यं त्यक्तं राजधर्मेषु सर्वं प्रत्यक्षं ते भूमिपालाः सदैते 004a बहुश्रुत्या गुरुशुश्रूषया वा परस्य वा संहननाद्वदन्ति 004c नित्यं धर्मं क्षत्रियो ब्रह्मचारी चरेदेको ह्याश्रमं धर्मकामः 005a सामान्यार्थे व्यवहारे प्रवृत्ते प्रियाप्रिये वर्जयन्नेव यत्नात् 005c चातुर्वर्ण्यस्थापनात्पालनाच्च तैस्तैर्योगैर्नियमैरौरसैश्च 006a सर्वोद्योगैराश्रमं धर्ममाहुः क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम् 006c स्वं स्वं धर्मं ये न चरन्ति वर्णास्तांस्तान्धर्मानयथावद्वदन्ति 007a निर्मर्यादे नित्यमर्थे विनष्टानाहुस्तान्वै पशुभूतान्मनुष्यान् 007c यथा नीतिं गमयत्यर्थलोभाच्छ्रेयांस्तस्मादाश्रमः क्षत्रधर्मः 008a त्रैविद्यानां या गतिर्ब्राह्मणानां यश्चैवोक्तोऽथाश्रमो ब्राह्मणानाम् 008c एतत्कर्म ब्राह्मणस्याहुरग्र्यमन्यत्कुर्वञ्शूद्रवच्छस्त्रवध्यः 009a चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिव 009c ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कथञ्चन 010a अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते 010c कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः 011a यो विकर्मस्थितो विप्रो न स सन्मानमर्हति 011c कर्मस्वनुपयुञ्जानमविश्वास्यं हि तं विदुः 012a एते धर्माः सर्ववर्णाश्च वीरैरुत्क्रष्टव्याः क्षत्रियैरेष धर्मः 012c तस्माज्ज्येष्ठा राजधर्मा न चान्ये वीर्यज्येष्ठा वीरधर्मा मता मे 013 मान्धातोवाच 013a यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः 013c शकास्तुषाराः कह्वाश्च पह्लवाश्चान्ध्रमद्रकाः 014a ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश्च सर्वशः 014c ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः 015a कथं धर्मं चरेयुस्ते सर्वे विषयवासिनः 015c मद्विधैश्च कथं स्थाप्याः सर्वे ते दस्युजीविनः 016a एतदिच्छाम्यहं श्रोतुं भगवंस्तद्ब्रवीहि मे 016c त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर 017 इन्द्र उवाच 017a मातापित्रोर्हि कर्तव्या शुश्रूषा सर्वदस्युभिः 017c आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् 018a भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः 018c वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते 019a पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च 019c दानानि च यथाकालं द्विजेषु दद्युरेव ते 020a अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम् 020c भरणं पुत्रदाराणां शौचमद्रोह एव च 021a दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता 021c पाकयज्ञा महार्हाश्च कर्तव्याः सर्वदस्युभिः 022a एतान्येवम्प्रकाराणि विहितानि पुरानघ 022c सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव 023 मान्धातोवाच 023a दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः 023c लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्वपि 024 इन्द्र उवाच 024a विनष्टायां दण्डनीतौ राजधर्मे निराकृते 024c सम्प्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप 025a असङ्ख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा 025c आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन्कृते युगे 026a अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः 026c उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः 027a यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः 027c तदा धर्मो न चलते सद्भूतः शाश्वतः परः 028a परलोकगुरुं चैव राजानं योऽवमन्यते 028c न तस्य दत्तं न हुतं न श्राद्धं फलति क्वचित् 029a मानुषाणामधिपतिं देवभूतं सनातनम् 029c देवाश्च बहु मन्यन्ते धर्मकामं नरेश्वरम् 030a प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत् 030c स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति 031a प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् 031c स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम् 032 भीष्म उवाच 032a एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः 032c जगाम भवनं विष्णुरक्षरं परमं पदम् 033a एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ 033c कः क्षत्रमवमन्येत चेतनावान्बहुश्रुतः 034a अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च 034c अन्तरा विलयं यान्ति यथा पथि विचक्षुषः 035a आदौ प्रवर्तिते चक्रे तथैवादिपरायणे 035c वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ