001 भीष्म उवाच 001a चातुराश्रम्यधर्माश्च जातिधर्माश्च पाण्डव 001c लोकपालोत्तराश्चैव क्षात्रे धर्मे व्यवस्थिताः 002a सर्वाण्येतानि धर्माणि क्षात्रे भरतसत्तम 002c निराशिषो जीवलोके क्षात्रे धर्मे व्यवस्थिताः 003a अप्रत्यक्षं बहुद्वारं धर्ममाश्रमवासिनाम् 003c प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम् 004a अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चयम् 004c अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः 005a प्रत्यक्षसुखभूयिष्ठमात्मसाक्षिकमच्छलम् 005c सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् 006a धर्माश्रमव्यवसिनां ब्राह्मणानां युधिष्ठिर 006c यथा त्रयाणां वर्णानां सङ्ख्यातोपश्रुतिः पुरा 006e राजधर्मेष्वनुपमा लोक्या सुचरितैरिह 007a उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् 007c सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा 007e जग्मुः सुबहवः शूरा राजानो दण्डनीतये 008a एकैकमात्मनः कर्म तुलयित्वाश्रमे पुरा 008c राजानः पर्युपातिष्ठन्दृष्टान्तवचने स्थिताः 009a साध्या देवा वसवश्चाश्विनौ च रुद्राश्च विश्वे मरुतां गणाश्च 009c सृष्टाः पुरा आदिदेवेन देवा क्षात्रे धर्मे वर्तयन्ते च सिद्धाः 010a अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चयम् 010c निर्मर्यादे वर्तमाने दानवैकायने कृते 010e बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् 011a पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया 011c अनादिमध्यनिधनं देवं नारायणं प्रति 012a स राजा राजशार्दूल मान्धाता परमेष्ठिनः 012c जग्राह शिरसा पादौ यज्ञे विष्णोर्महात्मनः 013a दर्शयामास तं विष्णू रूपमास्थाय वासवम् 013c स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम् 014a तस्य पार्थिवसङ्घस्य तस्य चैव महात्मनः 014c संवादोऽयं महानासीद्विष्णुं प्रति महाद्युते 015 इन्द्र उवाच 015a किमिष्यते धर्मभृतां वरिष्ठ यद्द्रष्टुकामोऽसि तमप्रमेयम् 015c अनन्तमायामितसत्त्ववीर्यं नारायणं ह्यादिदेवं पुराणम् 016a नासौ देवो विश्वरूपो मयापि शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात् 016c येऽन्ये कामास्तव राजन्हृदिस्था दास्यामि तांस्त्वं हि मर्त्येषु राजा 017a सत्ये स्थितो धर्मपरो जितेन्द्रियः शूरो दृढं प्रीतिरतः सुराणाम् 017c बुद्ध्या भक्त्या चोत्तमश्रद्धया च ततस्तेऽहं दद्मि वरं यथेष्टम् 018 मान्धातोवाच 018a असंशयं भगवन्नादिदेवं द्रक्ष्याम्यहं शिरसाहं प्रसाद्य 018c त्यक्त्वा भोगान्धर्मकामो ह्यरण्यमिच्छे गन्तुं सत्पथं लोकजुष्टम् 019a क्षात्राद्धर्माद्विपुलादप्रमेयाल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च 019c धर्मो योऽसावादिदेवात्प्रवृत्तो लोकज्येष्ठस्तं न जानामि कर्तुम् 020 इन्द्र उवाच 020a असैनिकोऽधर्मपरश्चरेथाः परां गतिं लप्स्यसे चाप्रमत्तः 020c क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः पश्चादन्ये शेषभूताश्च धर्माः 021a शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः सुप्रस्थानाः क्षत्रधर्माविशिष्टाः 021c अस्मिन्धर्मे सर्वधर्माः प्रविष्टास्तस्माद्धर्मं श्रेष्ठमिमं वदन्ति 022a कर्मणा वै पुरा देवा ऋषयश्चामितौजसः 022c त्राताः सर्वे प्रमथ्यारीन्क्षत्रधर्मेण विष्णुना 023a यदि ह्यसौ भगवान्नाहनिष्यद्रिपून्सर्वान्वसुमानप्रमेयः 023c न ब्राह्मणा न च लोकादिकर्ता न सद्धर्मा नादिधर्मा भवेयुः 024a इमामुर्वीं न जयेद्विक्रमेण देवश्रेष्ठोऽसौ पुरा चेदमेयः 024c चातुर्वर्ण्यं चातुराश्रम्यधर्माः सर्वे न स्युर्ब्रह्मणो वै विनाशात् 025a दृष्टा धर्माः शतधा शाश्वतेन क्षात्रेण धर्मेण पुनः प्रवृत्ताः 025c युगे युगे ह्यादिधर्माः प्रवृत्ता लोकज्येष्ठं क्षत्रधर्मं वदन्ति 026a आत्मत्यागः सर्वभूतानुकम्पा लोकज्ञानं मोक्षणं पालनं च 026c विषण्णानां मोक्षणं पीडितानां क्षात्रे धर्मे विद्यते पार्थिवानाम् 027a निर्मर्यादाः काममन्युप्रवृत्ता भीता राज्ञो नाधिगच्छन्ति पापम् 027c शिष्टाश्चान्ये सर्वधर्मोपपन्नाः साध्वाचाराः साधु धर्मं चरन्ति 028a पुत्रवत्परिपाल्यानि लिङ्गधर्मेण पार्थिवैः 028c लोके भूतानि सर्वाणि विचरन्ति न संशयः 029a सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम् 029c शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम्