001 भीष्म उवाच 001a ज्याकर्षणं शत्रुनिबर्हणं च कृषिर्वणिज्या पशुपालनं च 001c शुश्रूषणं चापि तथार्थहेतोरकार्यमेतत्परमं द्विजस्य 002a सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा 002c कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते 003a राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया 003c कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत् 004a शूद्रो राजन्भवति ब्रह्मबन्धुर्दुश्चारित्र्यो यश्च धर्मादपेतः 004c वृषलीपतिः पिशुनो नर्तकश्च ग्रामप्रैष्यो यश्च भवेद्विकर्मा 005a जपन्वेदानजपंश्चापि राजन्समः शूद्रैर्दासवच्चापि भोज्यः 005c एते सर्वे शूद्रसमा भवन्ति राजन्नेतान्वर्जयेद्देवकृत्ये 006a निर्मर्यादे चाशने क्रूरवृत्तौ हिंसात्मके त्यक्तधर्मस्ववृत्ते 006c हव्यं कव्यं यानि चान्यानि राजन्देयान्यदेयानि भवन्ति तस्मिन् 007a तस्माद्धर्मो विहितो ब्राह्मणस्य दमः शौचं चार्जवं चापि राजन् 007c तथा विप्रस्याश्रमाः सर्व एव पुरा राजन्ब्रह्मणा वै निसृष्टाः 008a यः स्याद्दान्तः सोमप आर्यशीलः सानुक्रोशः सर्वसहो निराशीः 008c ऋजुर्मृदुरनृशंसः क्षमावान्स वै विप्रो नेतरः पापकर्मा 009a शूद्रं वैश्यं राजपुत्रं च राजल्ँलोकाः सर्वे संश्रिता धर्मकामाः 009c तस्माद्वर्णाञ्जातिधर्मेषु सक्तान्मत्वा विष्णुर्नेच्छति पाण्डुपुत्र 010a लोके चेदं सर्वलोकस्य न स्याच्चातुर्वर्ण्यं वेदवादाश्च न स्युः 010c सर्वाश्चेज्याः सर्वलोकक्रियाश्च सद्यः सर्वे चाश्रमस्था न वै स्युः 011a यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम् 011c कर्तुमाश्रमदृष्टांश्च धर्मांस्ताञ्शृणु पाण्डव 012a शुश्रूषाकृतकृत्यस्य कृतसन्तानकर्मणः 012c अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते 013a अल्पान्तरगतस्यापि दशधर्मगतस्य वा 013c आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् 014a भैक्षचर्यां न तु प्राहुस्तस्य तद्धर्मचारिणः 014c तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि 015a कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः 015c वैश्यो गच्छेदनुज्ञातो नृपेणाश्रममण्डलम् 016a वेदानधीत्य धर्मेण राजशास्त्राणि चानघ 016c सन्तानादीनि कर्माणि कृत्वा सोमं निषेव्य च 017a पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर 017c राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च 018a समानीय यथापाठं विप्रेभ्यो दत्तदक्षिणः 018c सङ्ग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु 019a स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव 019c अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ 020a अर्चयित्वा पितॄन्सम्यक्पितृयज्ञैर्यथाविधि 020c देवान्यज्ञैरृषीन्वेदैरर्चित्वा चैव यत्नतः 021a अन्तकाले च सम्प्राप्ते य इच्छेदाश्रमान्तरम् 021c आनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात् 022a राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया 022c अपेतगृहधर्मोऽपि चरेज्जीवितकाम्यया 023a न चैतन्नैष्ठिकं कर्म त्रयाणां भरतर्षभ 023c चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम् 024a बह्वायत्तं क्षत्रियैर्मानवानां लोकश्रेष्ठं धर्ममासेवमानैः 024c सर्वे धर्माः सोपधर्मास्त्रयाणां राज्ञो धर्मादिति वेदाच्छृणोमि 025a यथा राजन्हस्तिपदे पदानि संलीयन्ते सर्वसत्त्वोद्भवानि 025c एवं धर्मान्राजधर्मेषु सर्वान्सर्वावस्थं सम्प्रलीनान्निबोध 026a अल्पाश्रयानल्पफलान्वदन्ति धर्मानन्यान्धर्मविदो मनुष्याः 026c महाश्रयं बहुकल्याणरूपं क्षात्रं धर्मं नेतरं प्राहुरार्याः 027a सर्वे धर्मा राजधर्मप्रधानाः सर्वे धर्माः पाल्यमाना भवन्ति 027c सर्वत्यागो राजधर्मेषु राजंस्त्यागे चाहुर्धर्ममग्र्यं पुराणम् 028a मज्जेत्त्रयी दण्डनीतौ हतायां सर्वे धर्मा न भवेयुर्विरुद्धाः 028c सर्वे धर्माश्चाश्रमाणां गताः स्युः क्षात्रे त्यक्ते राजधर्मे पुराणे 029a सर्वे त्यागा राजधर्मेषु दृष्टाः सर्वा दीक्षा राजधर्मेषु चोक्ताः 029c सर्वे योगा राजधर्मेषु चोक्ताः सर्वे लोका राजधर्मान्प्रविष्टाः 030a यथा जीवाः प्रकृतौ वध्यमाना धर्माश्रितानामुपपीडनाय 030c एवं धर्मा राजधर्मैर्वियुक्ताः सर्वावस्थं नाद्रियन्ते स्वधर्मम्