001 युधिष्ठिर उवाच 001a शिवान्सुखान्महोदर्कानहिंस्राल्ँलोकसम्मतान् 001c ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान् 002 भीष्म उवाच 002a ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो 002c वर्णास्ताननुवर्तन्ते त्रयो भरतसत्तम 003a उक्तानि कर्माणि बहूनि राजन्स्वर्ग्याणि राजन्यपरायणानि 003c नेमानि दृष्टान्तविधौ स्मृतानि क्षात्रे हि सर्वं विहितं यथावत् 004a क्षात्राणि वैश्यानि च सेवमानः शौद्राणि कर्माणि च ब्राह्मणः सन् 004c अस्मिल्ँलोके निन्दितो मन्दचेताः परे च लोके निरयं प्रयाति 005a या सञ्ज्ञा विहिता लोके दासे शुनि वृके पशौ 005c विकर्मणि स्थिते विप्रे तां सञ्ज्ञां कुरु पाण्डव 006a षट्कर्मसम्प्रवृत्तस्य आश्रमेषु चतुर्ष्वपि 006c सर्वधर्मोपपन्नस्य सम्भूतस्य कृतात्मनः 007a ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च 007c निराशिषो वदान्यस्य लोका ह्यक्षरसञ्ज्ञिताः 008a यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च 008c तादृशं तादृशेनैव स गुणं प्रतिपद्यते 009a वृद्ध्या कृषिवणिक्त्वेन जीवसञ्जीवनेन च 009c वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत् 010a कालसञ्चोदितः कालः कालपर्यायनिश्चितः 010c उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः 011a अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च 011c स्वकर्मनिरतो लोको ह्यक्षरः सर्वतोमुखः