001 भीष्म उवाच 001a आश्रमाणां महाबाहो शृणु सत्यपराक्रम 001c चतुर्णामिह वर्णानां कर्माणि च युधिष्ठिर 002a वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम् 002c ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम् 003a जटाकरणसंस्कारं द्विजातित्वमवाप्य च 003c आधानादीनि कर्माणि प्राप्य वेदमधीत्य च 004a सदारो वाप्यदारो वा आत्मवान्संयतेन्द्रियः 004c वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् 005a तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् 005c ऊर्ध्वरेताः प्रजायित्वा गच्छत्यक्षरसात्मताम् 006a एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् 006c कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता 007a चरितब्रह्मचर्यस्य ब्राह्मणस्य विशाम्पते 007c भैक्षचर्यास्वधीकारः प्रशस्त इह मोक्षिणः 008a यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः 008c यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः 009a निराशीः स्यात्सर्वसमो निर्भोगो निर्विकारवान् 009c विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम् 010a अधीत्य वेदान्कृतसर्वकृत्यः सन्तानमुत्पाद्य सुखानि भुक्त्वा 010c समाहितः प्रचरेद्दुश्चरं तं गार्हस्थ्यधर्मं मुनिधर्मदृष्टम् 011a स्वदारतुष्ट ऋतुकालगामी नियोगसेवी नशठो नजिह्मः 011c मिताशनो देवपरः कृतज्ञः सत्यो मृदुश्चानृशंसः क्षमावान् 012a दान्तो विधेयो हव्यकव्येऽप्रमत्तो अन्नस्य दाता सततं द्विजेभ्यः 012c अमत्सरी सर्वलिङ्गिप्रदाता वैताननित्यश्च गृहाश्रमी स्यात् 013a अथात्र नारायणगीतमाहुर्महर्षयस्तात महानुभावाः 013c महार्थमत्यर्थतपःप्रयुक्तं तदुच्यमानं हि मया निबोध 014a सत्यार्जवं चातिथिपूजनं च धर्मस्तथार्थश्च रतिश्च दारे 014c निषेवितव्यानि सुखानि लोके ह्यस्मिन्परे चैव मतं ममैतत् 015a भरणं पुत्रदाराणां वेदानां पारणं तथा 015c सतां तमाश्रमं श्रेष्ठं वदन्ति परमर्षयः 016a एवं हि यो ब्राह्मणो यज्ञशीलो गार्हस्थ्यमध्यावसते यथावत् 016c गृहस्थवृत्तिं प्रविशोध्य सम्यक्स्वर्गे विशुद्धं फलमाप्नुते सः 017a तस्य देहपरित्यागादिष्टाः कामाक्षया मताः 017c आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः 018a खादन्नेको जपन्नेकः सर्पन्नेको युधिष्ठिर 018c एकस्मिन्नेव आचार्ये शुश्रूषुर्मलपङ्कवान् 019a ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी 019c अविचार्य तथा वेदं कृत्यं कुर्वन्वसेत्सदा 020a शुश्रूषां सततं कुर्वन्गुरोः सम्प्रणमेत च 020c षट्कर्मस्वनिवृत्तश्च नप्रवृत्तश्च सर्वशः 021a न चरत्यधिकारेण सेवितं द्विषतो न च 021c एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते