001 वैशम्पायन उवाच 001a ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् 001c प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः 002a के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् 002c चतुर्णामाश्रमाणां च राजधर्माश्च के मताः 003a केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते 003c केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ 004a कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा 004c ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः 005a केषु विश्वसितव्यं स्याद्राज्ञां कस्याञ्चिदापदि 005c कुतो वात्मा दृढो रक्ष्यस्तन्मे ब्रूहि पितामह 006 भीष्म उवाच 006a नमो धर्माय महते नमः कृष्णाय वेधसे 006c ब्राह्मणेभ्यो नमस्कृत्वा धर्मान्वक्ष्यामि शाश्वतान् 007a अक्रोधः सत्यवचनं संविभागः क्षमा तथा 007c प्रजनः स्वेषु दारेषु शौचमद्रोह एव च 008a आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः 008c ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् 009a दममेव महाराज धर्ममाहुः पुरातनम् 009c स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते 010a तं चेद्वित्तमुपागच्छेद्वर्तमानं स्वकर्मणि 010c अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् 011a कुर्वीतापत्यसन्तानमथो दद्याद्यजेत च 011c संविभज्य हि भोक्तव्यं धनं सद्भिरितीष्यते 012a परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः 012c कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते 013a क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत 013c दद्याद्राजा न याचेत यजेत न तु याजयेत् 014a नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् 014c नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम् 015a ये च क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः 015c य एवाहवजेतारस्त एषां लोकजित्तमाः 016a अविक्षतेन देहेन समराद्यो निवर्तते 016c क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः 017a वधं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः 017c नास्य कृत्यतमं किञ्चिदन्यद्दस्युनिबर्हणात् 018a दानमध्ययनं यज्ञो योगः क्षेमो विधीयते 018c तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता 019a स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः 019c धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत् 020a परिनिष्ठितकार्यः स्यान्नृपतिः परिपालनात् 020c कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते 021a वैश्यस्यापीह यो धर्मस्तं ते वक्ष्यामि भारत 021c दानमध्ययनं यज्ञः शौचेन धनसञ्चयः 022a पितृवत्पालयेद्वैश्यो युक्तः सर्वपशूनिह 022c विकर्म तद्भवेदन्यत्कर्म यद्यत्समाचरेत् 022e रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् 023a प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् 023c ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः 024a तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् 024c षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् 025a लये च सप्तमो भागस्तथा शृङ्गे कला खुरे 025c सस्यस्य सर्वबीजानामेषा सांवत्सरी भृतिः 026a न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति 026c वैश्ये चेच्छति नान्येन रक्षितव्याः कथञ्चन 027a शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत 027c प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् 028a तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते 028c तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात् 029a शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूयकः 029c सञ्चयांश्च न कुर्वीत जातु शूद्रः कथञ्चन 030a पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः 030c राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः 031a तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् 031c अवश्यभरणीयो हि वर्णानां शूद्र उच्यते 032a छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च 032c यातयामानि देयानि शूद्राय परिचारिणे 033a अधार्याणि विशीर्णानि वसनानि द्विजातिभिः 033c शूद्रायैव विधेयानि तस्य धर्मधनं हि तत् 034a यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् 034c कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः 034e देयः पिण्डोऽनपेताय भर्तव्यौ वृद्धदुर्बलौ 035a शूद्रेण च न हातव्यो भर्ता कस्याञ्चिदापदि 035c अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये 035e न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो ह्यसौ 036a उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्यैव भारत 036c स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीयते 037a ताभ्यां शूद्रः पाकयज्ञैर्यजेत व्रतवान्स्वयम् 037c पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् 038a शूद्रः पैजवनो नाम सहस्राणां शतं ददौ 038c ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम् 039a अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते 039c दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत् 040a दैवतं परमं विप्राः स्वेन स्वेन परस्परम् 040c अयजन्निह सत्रैस्ते तैस्तैः कामैः सनातनैः 041a संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः 041c देवानामपि ये देवा यद्ब्रूयुस्ते परं हि तत् 041e तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया 042a ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्द्विजः 042c अनृग्यजुरसामा तु प्राजापत्य उपद्रवः 043a यज्ञो मनीषया तात सर्ववर्णेषु भारत 043c नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः 043e तस्मात्सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते 044a स्वं दैवतं ब्राह्मणाः स्वेन नित्यं परान्वर्णानयजन्नेवमासीत् 044c आरोचिता नः सुमहान्स धर्मः सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः 045a तस्माद्वर्णा ऋजवो जातिधर्माः संसृज्यन्ते तस्य विपाक एषः 045c एकं साम यजुरेकमृगेका विप्रश्चैकोऽनिश्चयस्तेषु दृष्टः 046a अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः 046c वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् 047a उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रियः 047c वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् 048a यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम् 048c बहूनि यज्ञरूपाणि नानाकर्मफलानि च 049a तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः 049c द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति 050a स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः 050c यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम् 051a ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् 051c सर्वथा सर्ववर्णैर्हि यष्टव्यमिति निश्चयः 051e न हि यज्ञसमं किञ्चित्त्रिषु लोकेषु विद्यते 052a तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता 052c श्रद्धापवित्रमाश्रित्य यथाशक्ति प्रयच्छता