001 वैशम्पायन उवाच 001a ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः 001c ययुस्ते नगराकारै रथैः पाण्डवयादवाः 002a प्रपद्य च कुरुक्षेत्रं भीष्ममासाद्य चानघम् 002c सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम् 003a व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः 003c निषेदुरभितो भीष्मं परिवार्य समन्ततः 004a ततो राजा महातेजा धर्मराजो युधिष्ठिरः 004c अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्याभिवाद्य च 005a य एष राजा-राजेति शब्दश्चरति भारत 005c कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह 006a तुल्यपाणिशिरोग्रीवस्तुल्यबुद्धीन्द्रियात्मकः 006c तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः 007a तुल्यशुक्रास्थिमज्जश्च तुल्यमांसासृगेव च 007c निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान् 008a समानजन्ममरणः समः सर्वगुणैर्नृणाम् 008c विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति 009a कथमेको महीं कृत्स्नां वीरशूरार्यसङ्कुलाम् 009c रक्षत्यपि च लोकोऽस्य प्रसादमभिवाञ्छति 010a एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति 010c व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः 011a एतदिच्छाम्यहं सर्वं तत्त्वेन भरतर्षभ 011c श्रोतुं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर 012a नैतत्कारणमल्पं हि भविष्यति विशाम्पते 012c यदेकस्मिञ्जगत्सर्वं देववद्याति सन्नतिम् 013 भीष्म उवाच 013a नियतस्त्वं नरश्रेष्ठ शृणु सर्वमशेषतः 013c यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत् 014a नैव राज्यं न राजासीन्न दण्डो न च दाण्डिकः 014c धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम् 015a पालयानास्तथान्योन्यं नरा धर्मेण भारत 015c खेदं परममाजग्मुस्ततस्तान्मोह आविशत् 016a ते मोहवशमापन्ना मानवा मनुजर्षभ 016c प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत् 017a नष्टायां प्रतिपत्तौ तु मोहवश्या नरास्तदा 017c लोभस्य वशमापन्नाः सर्वे भारतसत्तम 018a अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः 018c कामो नामापरस्तत्र समपद्यत वै प्रभो 019a तांस्तु कामवशं प्राप्तान्रागो नाम समस्पृशत् 019c रक्ताश्च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर 020a अगम्यागमनं चैव वाच्यावाच्यं तथैव च 020c भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन् 021a विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह 021c नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत् 022a नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन् 022c ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः 023a प्रपद्य भगवन्तं ते देवा लोकपितामहम् 023c ऊचुः प्राञ्जलयः सर्वे दुःखशोकभयार्दिताः 024a भगवन्नरलोकस्थं नष्टं ब्रह्म सनातनम् 024c लोभमोहादिभिर्भावैस्ततो नो भयमाविशत् 025a ब्रह्मणश्च प्रणाशेन धर्मोऽप्यनशदीश्वर 025c ततः स्म समतां याता मर्त्यैस्त्रिभुवनेश्वर 026a अधो हि वर्षमस्माकं मर्त्यास्तूर्ध्वप्रवर्षिणः 026c क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम् 027a अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह 027c त्वत्प्रभावसमुत्थोऽसौ प्रभावो नो विनश्यति 028a तानुवाच सुरान्सर्वान्स्वयम्भूर्भगवांस्ततः 028c श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः 029a ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् 029c यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः 030a त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा 030c चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गणः 031a मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः 031c स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः 032a आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च 032c सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः 033a त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ 033c दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः 034a अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम् 034c चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः 035a साम चोपप्रदानं च भेदो दण्डश्च पाण्डव 035c उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता 036a मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च 036c विभ्रंशश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम् 037a सन्धिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः 037c भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः 038a यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः 038c विजयो धर्मयुक्तश्च तथार्थविजयश्च ह 039a आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः 039c लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् 040a प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः 040c प्रकाशोऽष्टविधस्तत्र गुह्यस्तु बहुविस्तरः 041a रथा नागा हयाश्चैव पादाताश्चैव पाण्डव 041c विष्टिर्नावश्चराश्चैव देशिकाः पथि चाष्टकम् 042a अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु 042c जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः 043a स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः 043c अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः 044a कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह 044c आत्मरक्षणमाश्वासः स्पशानां चान्ववेक्षणम् 045a कल्पना विविधाश्चापि नृनागरथवाजिनाम् 045c व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम् 046a उत्पाताश्च निपाताश्च सुयुद्धं सुपलायनम् 046c शस्त्राणां पायनज्ञानं तथैव भरतर्षभ 047a बलव्यसनमुक्तं च तथैव बलहर्षणम् 047c पीडनास्कन्दकालश्च भयकालश्च पाण्डव 048a तथा खातविधानं च योगसञ्चार एव च 048c चौराटव्यबलैश्चोग्रैः परराष्ट्रस्य पीडनम् 049a अग्निदैर्गरदैश्चैव प्रतिरूपकचारकैः 049c श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च 050a दूषणेन च नागानामाशङ्काजननेन च 050c आरोधनेन भक्तस्य पथश्चोपार्जनेन च 051a सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम् 051c दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम् 052a अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम् 052c अवमर्दः प्रतीघातस्तथैव च बलीयसाम् 053a व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् 053c शमो व्यायामयोगश्च योगो द्रव्यस्य सञ्चयः 054a अभृतानां च भरणं भृतानां चान्ववेक्षणम् 054c अर्थकाले प्रदानं च व्यसनेष्वप्रसङ्गिता 055a तथा राजगुणाश्चैव सेनापतिगुणाश्च ये 055c कारणस्य च कर्तुश्च गुणदोषास्तथैव च 056a दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुजीविनाम् 056c शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् 057a अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम् 057c प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा 058a विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुना 058c चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः 059a क्रोधजानि तथोग्राणि कामजानि तथैव च 059c दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह 060a मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ 060c कामजान्याहुराचार्याः प्रोक्तानीह स्वयम्भुवा 061a वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च 061c आत्मनो निग्रहस्त्यागोऽथार्थदूषणमेव च 062a यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः 062c अवमर्दः प्रतीघातः केतनानां च भञ्जनम् 063a चैत्यद्रुमाणामामर्दो रोधःकर्मान्तनाशनम् 063c अपस्करोऽथ गमनं तथोपास्या च वर्णिता 064a पणवानकशङ्खानां भेरीणां च युधां वर 064c उपार्जनं च द्रव्याणां परमर्म च तानि षट् 065a लब्धस्य च प्रशमनं सतां चैव हि पूजनम् 065c विद्वद्भिरेकीभावश्च प्रातर्होमविधिज्ञता 066a मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया 066c आहारयोजनं चैव नित्यमास्तिक्यमेव च 067a एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः 067c उत्सवानां समाजानां क्रियाः केतनजास्तथा 068a प्रत्यक्षा च परोक्षा च सर्वाधिकरणेषु च 068c वृत्तिर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् 069a अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम् 069c अनुजीविस्वजातिभ्यो गुणेषु परिरक्षणम् 070a रक्षणं चैव पौराणां स्वराष्ट्रस्य विवर्धनम् 070c मण्डलस्था च या चिन्ता राजन्द्वादशराजिका 071a द्वासप्ततिमतिश्चैव प्रोक्ता या च स्वयम्भुवा 071c देशजातिकुलानां च धर्माः समनुवर्णिताः 072a धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः 072c उपायश्चार्थलिप्सा च विविधा भूरिदक्षिणाः 073a मूलकर्मक्रिया चात्र माया योगश्च वर्णितः 073c दूषणं स्रोतसामत्र वर्णितं च स्थिराम्भसाम् 074a यैर्यैरुपायैर्लोकश्च न चलेदार्यवर्त्मनः 074c तत्सर्वं राजशार्दूल नीतिशास्त्रेऽनुवर्णितम् 075a एतत्कृत्वा शुभं शास्त्रं ततः स भगवान्प्रभुः 075c देवानुवाच संहृष्टः सर्वाञ्शक्रपुरोगमान् 076a उपकाराय लोकस्य त्रिवर्गस्थापनाय च 076c नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता 077a दण्डेन सहिता ह्येषा लोकरक्षणकारिका 077c निग्रहानुग्रहरता लोकाननु चरिष्यति 078a दण्डेन नीयते चेयं दण्डं नयति चाप्युत 078c दण्डनीतिरिति प्रोक्ता त्रील्ँलोकाननुवर्तते 079a षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु 079c महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा 080a नयचारश्च विपुलो येन सर्वमिदं ततम् 080c आगमश्च पुराणानां महर्षीणां च सम्भवः 081a तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर 081c सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च 082a चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम् 082c इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः 083a तपो ज्ञानमहिंसा च सत्यासत्ये नयः परः 083c वृद्धोपसेवा दानं च शौचमुत्थानमेव च 084a सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम् 084c भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम् 085a तस्मिन्पैतामहे शास्त्रे पाण्डवैतदसंशयम् 085c धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः 086a ततस्तां भगवान्नीतिं पूर्वं जग्राह शङ्करः 086c बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः 087a युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः 087c सञ्चिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम् 088a वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत 088c दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः 089a भगवानपि तच्छास्त्रं सञ्चिक्षेप पुरन्दरः 089c सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् 090a अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः 090c सञ्चिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते 091a अध्यायानां सहस्रेण काव्यः सङ्क्षेपमब्रवीत् 091c तच्छास्त्रममितप्रज्ञो योगाचार्यो महातपाः 092a एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः 092c सङ्क्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासि पाण्डव 093a अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम् 093c एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्यं तं वै समादिश 094a ततः सञ्चिन्त्य भगवान्देवो नारायणः प्रभुः 094c तैजसं वै विरजसं सोऽसृजन्मानसं सुतम् 095a विरजास्तु महाभाग विभुत्वं भुवि नैच्छत 095c न्यासायैवाभवद्बुद्धिः प्रणीता तस्य पाण्डव 096a कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि पञ्चातिगोऽभवत् 096c कर्दमस्तस्य च सुतः सोऽप्यतप्यन्महत्तपः 097a प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः 097c प्रजानां रक्षिता साधुर्दण्डनीतिविशारदः 098a अनङ्गपुत्रोऽतिबलो नीतिमानधिगम्य वै 098c अभिपेदे महीराज्यमथेन्द्रियवशोऽभवत् 099a मृत्योस्तु दुहिता राजन्सुनीथा नाम मानसी 099c प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत् 100a तं प्रजासु विधर्माणं रागद्वेषवशानुगम् 100c मन्त्रपूतैः कुशैर्जघ्नुरृषयो ब्रह्मवादिनः 101a ममन्थुर्दक्षिणं चोरुमृषयस्तस्य मन्त्रतः 101c ततोऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि 102a दग्धस्थाणुप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः 102c निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः 103a तस्मान्निषादाः सम्भूताः क्रूराः शैलवनाश्रयाः 103c ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः 104a भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः 104c ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः 105a कवची बद्धनिस्त्रिंशः सशरः सशरासनः 105c वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः 106a तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम् 106c ततः स प्राञ्जलिर्वैन्यो महर्षींस्तानुवाच ह 107a सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी 107c अनया किं मया कार्यं तन्मे तत्त्वेन शंसत 108a यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम् 108c तदहं वै करिष्यामि नात्र कार्या विचारणा 109a तमूचुरथ देवास्ते ते चैव परमर्षयः 109c नियतो यत्र धर्मो वै तमशङ्कः समाचर 110a प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु 110c कामक्रोधौ च लोभं च मानं चोत्सृज्य दूरतः 111a यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः 111c निग्राह्यस्ते स बाहुभ्यां शश्वद्धर्ममवेक्षतः 112a प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा 112c पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् 113a यश्चात्र धर्मनीत्युक्तो दण्डनीतिव्यपाश्रयः 113c तमशङ्कः करिष्यामि स्ववशो न कदाचन 114a अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो 114c लोकं च सङ्करात्कृत्स्नात्त्रातास्मीति परन्तप 115a वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान् 115c ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः 116a एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः 116c पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः 117a मन्त्रिणो वालखिल्यास्तु सारस्वत्यो गणो ह्यभूत् 117c महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत् 118a आत्मनाष्टम इत्येव श्रुतिरेषा परा नृषु 118c उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ 119a समतां वसुधायाश्च स सम्यगुपपादयत् 119c वैषम्यं हि परं भूमेरासीदिति ह नः श्रुतम् 120a स विष्णुना च देवेन शक्रेण विबुधैः सह 120c ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः 121a तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण्डव 121c सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः 122a शक्रश्च धनमक्षय्यं प्रादात्तस्य युधिष्ठिर 122c रुक्मं चापि महामेरुः स्वयं कनकपर्वतः 123a यक्षराक्षसभर्ता च भगवान्नरवाहनः 123c धर्मे चार्थे च कामे च समर्थं प्रददौ धनम् 124a हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा 124c प्रादुर्बभूवुर्वैन्यस्य चिन्तनादेव पाण्डव 124e न जरा न च दुर्भिक्षं नाधयो व्याधयस्तथा 125a सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात्कदाचन 125c भयमुत्पद्यते तत्र तस्य राज्ञोऽभिरक्षणात् 126a तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च 126c यक्षराक्षसनागैश्चापीप्सितं यस्य यस्य यत् 127a तेन धर्मोत्तरश्चायं कृतो लोको महात्मना 127c रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते 128a ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते 128c प्रथिता धनतश्चेयं पृथिवी साधुभिः स्मृता 129a स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः 129c नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति पार्थिव 130a तपसा भगवान्विष्णुराविवेश च भूमिपम् 130c देववन्नरदेवानां नमते यज्जगन्नृप 131a दण्डनीत्या च सततं रक्षितं तं नरेश्वर 131c नाधर्षयत्ततः कश्चिच्चारनित्याच्च दर्शनात् 132a आत्मना करणैश्चैव समस्येह महीक्षितः 132c को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात् 133a विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा 133c श्रीः सम्भूता यतो देवी पत्नी धर्मस्य धीमतः 134a श्रियः सकाशादर्थश्च जातो धर्मेण पाण्डव 134c अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता 135a सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम् 135c पार्थिवो जायते तात दण्डनीतिवशानुगः 136a महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि 136c बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति 137a स्थापनामथ देवानां न कश्चिदतिवर्तते 137c तिष्ठत्येकस्य च वशे तं चेदनुविधीयते 138a शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते 138c तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठति 139a यो ह्यस्य मुखमद्राक्षीत्सोम्य सोऽस्य वशानुगः 139c सुभगं चार्थवन्तं च रूपवन्तं च पश्यति 140a ततो जगति राजेन्द्र सततं शब्दितं बुधैः 140c देवाश्च नरदेवाश्च तुल्या इति विशाम्पते 141a एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु 141c कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तताम्