001 भीष्म उवाच 001a एतत्ते राजधर्माणां नवनीतं युधिष्ठिर 001c बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति 002a विशालाक्षश्च भगवान्काव्यश्चैव महातपाः 002c सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः 003a भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः 003c राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः 004a रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर 004c राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु 005a चारश्च प्रणिधिश्चैव काले दानममत्सरः 005c युक्त्यादानं न चादानमयोगेन युधिष्ठिर 006a सतां सङ्ग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम् 006c अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम् 007a साधूनामपरित्यागः कुलीनानां च धारणम् 007c निचयश्च निचेयानां सेवा बुद्धिमतामपि 008a बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम् 008c कार्येष्वखेदः कोशस्य तथैव च विवर्धनम् 009a पुरगुप्तिरविश्वासः पौरसङ्घातभेदनम् 009c केतनानां च जीर्णानामवेक्षा चैव सीदताम् 010a द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः 010c अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम् 011a उपजापश्च भृत्यानामात्मनः परदर्शनात् 011c अविश्वासः स्वयं चैव परस्याश्वासनं तथा 012a नीतिधर्मानुसरणं नित्यमुत्थानमेव च 012c रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम् 013a उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत 013c राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे 014a उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः 014c उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च 015a उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति 015c उत्थानधीरं वाग्धीरा रमयन्त उपासते 016a उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः 016c धर्षणीयो रिपूणां स्याद्भुजङ्ग इव निर्विषः 017a न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा 017c अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च 018a एकाश्वेनापि सम्भूतः शत्रुर्दुर्गसमाश्रितः 018c तं तं तापयते देशमपि राज्ञः समृद्धिनः 019a राज्ञो रहस्यं यद्वाक्यं जयार्थं लोकसङ्ग्रहः 019c हृदि यच्चास्य जिह्मं स्यात्कारणार्थं च यद्भवेत् 020a यच्चास्य कार्यं वृजिनमार्जवेनैव धार्यते 020c दम्भनार्थाय लोकस्य धर्मिष्ठामाचरेत्क्रियाम् 021a राज्यं हि सुमहत्तन्त्रं दुर्धार्यमकृतात्मभिः 021c न शक्यं मृदुना वोढुमाघातस्थानमुत्तमम् 022a राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते 022c तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर 023a यद्यप्यस्य विपत्तिः स्याद्रक्षमाणस्य वै प्रजाः 023c सोऽप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः 024a एष ते राजधर्माणां लेशः समनुवर्णितः 024c भूयस्ते यत्र सन्देहस्तद्ब्रूहि वदतां वर 025 वैशम्पायन उवाच 025a ततो व्यासश्च भगवान्देवस्थानोऽश्मना सह 025c वासुदेवः कृपश्चैव सात्यकिः सञ्जयस्तथा 026a साधु साध्विति संहृष्टाः पुष्यमाणैरिवाननैः 026c अस्तुवंस्ते नरव्याघ्रं भीष्मं धर्मभृतां वरम् 027a ततो दीनमना भीष्ममुवाच कुरुसत्तमः 027c नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् 028a श्व इदानीं स्वसन्देहं प्रक्ष्यामि त्वं पितामह 028c उपैति सविताप्यस्तं रसमापीय पार्थिवम् 029a ततो द्विजातीनभिवाद्य केशवः कृपश्च ते चैव युधिष्ठिरादयः 029c प्रदक्षिणीकृत्य महानदीसुतं ततो रथानारुरुहुर्मुदा युताः 030a दृषद्वतीं चाप्यवगाह्य सुव्रताः कृतोदकार्याः कृतजप्यमङ्गलाः 030c उपास्य सन्ध्यां विधिवत्परन्तपास्ततः पुरं ते विविशुर्गजाह्वयम्