001 भीष्म उवाच 001a नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर 001c प्रशाम्यते च राजा हि नारीवोद्यमवर्जितः 002a भगवानुशना चाह श्लोकमत्र विशाम्पते 002c तमिहैकमना राजन्गदतस्त्वं निबोध मे 003a द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव 003c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 004a तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि 004c सन्धेयानपि सन्धत्स्व विरोध्यांश्च विरोधय 005a सप्ताङ्गे यश्च ते राज्ये वैपरीत्यं समाचरेत् 005c गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः 006a मरुत्तेन हि राज्ञायं गीतः श्लोकः पुरातनः 006c राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा 007a गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः 007c उत्पथप्रतिपन्नस्य परित्यागो विधीयते 008a बाहोः पुत्रेण राज्ञा च सगरेणेह धीमता 008c असमञ्जाः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा 009a असमञ्जाः सरय्वां प्राक्पौराणां बालकान्नृप 009c न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः 010a ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः 010c मिथ्या विप्रानुपचरन्सन्त्यक्तो दयितः सुतः 011a लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः 011c सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम् 012a न हिंस्यात्परवित्तानि देयं काले च दापयेत् 012c विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः 013a गुप्तमन्त्रो जितक्रोधो शास्त्रार्थगतनिश्चयः 013c धर्मे चार्थे च कामे च मोक्षे च सततं रतः 014a त्रय्या संवृतरन्ध्रश्च राजा भवितुमर्हति 014c वृजिनस्य नरेन्द्राणां नान्यत्संवरणात्परम् 015a चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता 015c धर्मसङ्कररक्षा हि राज्ञां धर्मः सनातनः 016a न विश्वसेच्च नृपतिर्न चात्यर्थं न विश्वसेत् 016c षाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्यावलोकयेत् 017a द्विट्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते 017c त्रिवर्गविदितार्थश्च युक्तचारोपधिश्च यः 018a कोशस्योपार्जनरतिर्यमवैश्रवणोपमः 018c वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः 019a अभृतानां भवेद्भर्ता भृतानां चान्ववेक्षकः 019c नृपतिः सुमुखश्च स्यात्स्मितपूर्वाभिभाषिता 020a उपासिता च वृद्धानां जिततन्द्रीरलोलुपः 020c सतां वृत्ते स्थितमतिः सन्तो ह्याचारदर्शिनः 021a न चाददीत वित्तानि सतां हस्तात्कदाचन 021c असद्भ्यस्तु समादद्यात्सद्भ्यः सम्प्रतिपादयेत् 022a स्वयं प्रहर्तादाता च वश्यात्मा वश्यसाधनः 022c काले दाता च भोक्ता च शुद्धाचारस्तथैव च 023a शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः 023c शिष्टाञ्शिष्टाभिसम्बन्धान्मानिनो नावमानिनः 024a विद्याविदो लोकविदः परलोकान्ववेक्षकान् 024c धर्मेषु निरतान्साधूनचलानचलानिव 025a सहायान्सततं कुर्याद्राजा भूतिपुरस्कृतः 025c तैस्तुल्यश्च भवेद्भोगैश्छत्रमात्राज्ञयाधिकः 026a प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्सदा 026c एवं कृत्वा नरेन्द्रो हि न खेदमिह विन्दति 027a सर्वातिशङ्की नृपतिर्यश्च सर्वहरो भवेत् 027c स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव बाध्यते 028a शुचिस्तु पृथिवीपालो लोकचित्तग्रहे रतः 028c न पतत्यरिभिर्ग्रस्तः पतितश्चावतिष्ठते 029a अक्रोधनोऽथाव्यसनी मृदुदण्डो जितेन्द्रियः 029c राजा भवति भूतानां विश्वास्यो हिमवानिव 030a प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु तत्परः 030c सुदर्शः सर्ववर्णानां नयापनयवित्तथा 031a क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः 031c अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः 032a आरब्धान्येव कार्याणि न पर्यवसितानि च 032c यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः 033a पुत्रा इव पितुर्गेहे विषये यस्य मानवाः 033c निर्भया विचरिष्यन्ति स राजा राजसत्तमः 034a अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः 034c नयापनयवेत्तारः स राजा राजसत्तमः 035a स्वकर्मनिरता यस्य जना विषयवासिनः 035c असङ्घातरता दान्ताः पाल्यमाना यथाविधि 036a वश्या नेया विनीताश्च न च सङ्घर्षशीलिनः 036c विषये दानरुचयो नरा यस्य स पार्थिवः 037a न यस्य कूटकपटं न माया न च मत्सरः 037c विषये भूमिपालस्य तस्य धर्मः सनातनः 038a यः सत्करोति ज्ञानानि नेयः पौरहिते रतः 038c सतां धर्मानुगस्त्यागी स राजा राज्यमर्हति 039a यस्य चारश्च मन्त्रश्च नित्यं चैव कृताकृते 039c न ज्ञायते हि रिपुभिः स राजा राज्यमर्हति 040a श्लोकश्चायं पुरा गीतो भार्गवेण महात्मना 040c आख्याते रामचरिते नृपतिं प्रति भारत 041a राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् 041c राजन्यसति लोकस्य कुतो भार्या कुतो धनम् 042a तद्राजन्राजसिंहानां नान्यो धर्मः सनातनः 042c ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारणम् 043a प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ 043c राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु 044a षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे 044c अप्रवक्तारमाचार्यमनधीयानमृत्विजम् 045a अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् 045c ग्रामकामं च गोपालं वनकामं च नापितम्