001 वैशम्पायन उवाच 001a प्रणिपत्य हृषीकेशमभिवाद्य पितामहम् 001c अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः 002a राज्यं वै परमो धर्म इति धर्मविदो विदुः 002c महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव 003a राजधर्मान्विशेषेण कथयस्व पितामह 003c सर्वस्य जीवलोकस्य राजधर्माः परायणम् 004a त्रिवर्गोऽत्र समासक्तो राजधर्मेषु कौरव 004c मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः 005a यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा 005c नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् 006a अत्र वै सम्प्रमूढे तु धर्मे राजर्षिसेविते 006c लोकस्य संस्था न भवेत्सर्वं च व्याकुलं भवेत् 007a उदयन्हि यथा सूर्यो नाशयत्यासुरं तमः 007c राजधर्मास्तथालोक्यामाक्षिपन्त्यशुभां गतिम् 008a तदग्रे राजधर्माणामर्थतत्त्वं पितामह 008c प्रब्रूहि भरतश्रेष्ठ त्वं हि बुद्धिमतां वरः 009a आगमश्च परस्त्वत्तः सर्वेषां नः परन्तप 009c भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते 010 भीष्म उवाच 010a नमो धर्माय महते नमः कृष्णाय वेधसे 010c ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् 011a शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर 011c निरुच्यमानान्नियतो यच्चान्यदभिवाञ्छसि 012a आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया 012c देवतानां द्विजानां च वर्तितव्यं यथाविधि 013a दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह 013c आनृण्यं याति धर्मस्य लोकेन च स मान्यते 014a उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर 014c न ह्युत्थानमृते दैवं राज्ञामर्थप्रसिद्धये 015a साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च 015c पौरुषं हि परं मन्ये दैवं निश्चित्यमुच्यते 016a विपन्ने च समारम्भे सन्तापं मा स्म वै कृथाः 016c घटते विनयस्तात राज्ञामेष नयः परः 017a न हि सत्यादृते किञ्चिद्राज्ञां वै सिद्धिकारणम् 017c सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति 018a ऋषीणामपि राजेन्द्र सत्यमेव परं धनम् 018c तथा राज्ञः परं सत्यान्नान्यद्विश्वासकारणम् 019a गुणवाञ्शीलवान्दान्तो मृदुर्धर्म्यो जितेन्द्रियः 019c सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः 020a आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन 020c पुनर्नयविचारेण त्रयीसंवरणेन च 021a मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः 021c तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचर 022a अदण्ड्याश्चैव ते नित्यं विप्राः स्युर्ददतां वर 022c भूतमेतत्परं लोके ब्राह्मणा नाम भारत 023a मनुना चापि राजेन्द्र गीतौ श्लोकौ महात्मना 023c धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि 024a अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् 024c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 025a अयो हन्ति यदाश्मानमग्निश्चापोऽभिपद्यते 025c ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः 026a एतज्ज्ञात्वा महाराज नमस्या एव ते द्विजाः 026c भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः 027a एवं चैव नरव्याघ्र लोकतन्त्रविघातकाः 027c निग्राह्या एव सततं बाहुभ्यां ये स्युरीदृशाः 028a श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा 028c तौ निबोध महाप्राज्ञ त्वमेकाग्रमना नृप 029a उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे 029c निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नरेश्वरः 030a विनश्यमानं धर्मं हि यो रक्षति स धर्मवित् 030c न तेन भ्रूणहा स स्यान्मन्युस्तं मनुमृच्छति 031a एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः 031c स्वपराद्धानपि हि तान्विषयान्ते समुत्सृजेत् 032a अभिशस्तमपि ह्येषां कृपायीत विशाम्पते 032c ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च 033a राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम् 033c विधीयते न शारीरं भयमेषां कदाचन 034a दयिताश्च नरास्ते स्युर्नित्यं पुरुषसत्तम 034c न कोशः परमो ह्यन्यो राज्ञां पुरुषसञ्चयात् 035a दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः 035c सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम् 036a तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता 036c धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः 037a न च क्षान्तेन ते भाव्यं नित्यं पुरुषसत्तम 037c अधर्म्यो हि मृदू राजा क्षमावानिव कुञ्जरः 038a बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा 038c अस्मिन्नर्थे महाराज तन्मे निगदतः शृणु 039a क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः 039c हस्तियन्ता गजस्येव शिर एवारुरुक्षति 040a तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वापि भवेन्नृपः 040c वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः 041a प्रत्यक्षेणानुमानेन तथौपम्योपदेशतः 041c परीक्ष्यास्ते महाराज स्वे परे चैव सर्वदा 042a व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण 042c न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत् 043a नित्यं हि व्यसनी लोके परिभूतो भवत्युत 043c उद्वेजयति लोकं चाप्यतिद्वेषी महीपतिः 044a भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा 044c कारणं च महाराज शृणु येनेदमिष्यते 045a यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम् 045c गर्भस्य हितमाधत्ते तथा राज्ञाप्यसंशयम् 046a वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना 046c स्वं प्रियं समभित्यज्य यद्यल्लोकहितं भवेत् 047a न सन्त्याज्यं च ते धैर्यं कदाचिदपि पाण्डव 047c धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते 048a परिहासश्च भृत्यैस्ते न नित्यं वदतां वर 048c कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु 049a अवमन्यन्ति भर्तारं संहर्षादुपजीविनः 049c स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद्वचः 050a प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते 050c अयाच्यं चैव याचन्तेऽभोज्यान्याहारयन्ति च 051a क्रुध्यन्ति परिदीप्यन्ति भूमिमध्यासतेऽस्य च 051c उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च 052a जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः 052c स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च 053a वातं च ष्ठीवनं चैव कुर्वते चास्य सन्निधौ 053c निर्लज्जा नरशार्दूल व्याहरन्ति च तद्वचः 054a हयं वा दन्तिनं वापि रथं नृपतिसम्मतम् 054c अधिरोहन्त्यनादृत्य हर्षुले पार्थिवे मृदौ 055a इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम् 055c इत्येवं सुहृदो नाम ब्रुवन्ति परिषद्गताः 056a क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः 056c सङ्घर्षशीलाश्च सदा भवन्त्यन्योन्यकारणात् 057a विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम् 057c लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम् 057e अलङ्करणभोज्यं च तथा स्नानानुलेपनम् 058a हेलमाना नरव्याघ्र स्वस्थास्तस्योपशृण्वते 058c निन्दन्ति स्वानधीकारान्सन्त्यजन्ति च भारत 059a न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च 059c क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा 059e अस्मत्प्रणेयो राजेति लोके चैव वदन्त्युत 060a एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत 060c नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर