001 वैशम्पायन उवाच 001a अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः 001c हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्मनसी मम 001e तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः 002a युधिष्ठिरस्तु मां राजा धर्मान्समनुपृच्छतु 002c एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चानघ 003a यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि 003c अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डवः 004a सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम् 004c यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः 005a धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा 005c यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः 006a सत्यं दानं तपः शौचं शान्तिर्दाक्ष्यमसम्भ्रमः 006c यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः 007a यो न कामान्न संरम्भान्न भयान्नार्थकारणात् 007c कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः 008a सम्बन्धिनोऽतिथीन्भृत्यान्संश्रितोपाश्रितांश्च यः 008c सम्मानयति सत्कृत्य स मां पृच्छतु पाण्डवः 009a सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः 009c यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः 010a इज्याध्ययननित्यश्च धर्मे च निरतः सदा 010c शान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः 011 वासुदेव उवाच 011a लज्जया परयोपेतो धर्मात्मा स युधिष्ठिरः 011c अभिशापभयाद्भीतो भवन्तं नोपसर्पति 012a लोकस्य कदनं कृत्वा लोकनाथो विशां पते 012c अभिशापभयाद्भीतो भवन्तं नोपसर्पति 013a पूज्यान्मान्यांश्च भक्तांश्च गुरून्सम्बन्धिबान्धवान् 013c अर्घ्यार्हानिषुभिर्हत्वा भवन्तं नोपसर्पति 014 भीष्म उवाच 014a ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः 014c क्षत्रियाणां तथा कृष्ण समरे देहपातनम् 015a पितॄन्पितामहान्पुत्रान्गुरून्सम्बन्धिबान्धवान् 015c मिथ्याप्रवृत्तान्यः सङ्ख्ये निहन्याद्धर्म एव सः 016a समयत्यागिनो लुब्धान्गुरूनपि च केशव 016c निहन्ति समरे पापान्क्षत्रियो यः स धर्मवित् 017a आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना 017c धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत् 018 वैशम्पायन उवाच 018a एवमुक्तस्तु भीष्मेण धर्मराजो युधिष्ठिरः 018c विनीतवदुपागम्य तस्थौ सन्दर्शनेऽग्रतः 019a अथास्य पादौ जग्राह भीष्मश्चाभिननन्द तम् 019c मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा 020a तमुवाचाथ गाङ्गेय ऋषभः सर्वधन्विनाम् 020c पृच्छ मां तात विस्रब्धं मा भैस्त्वं कुरुसत्तम