001 जनमेजय उवाच 001a धर्मात्मनि महासत्त्वे सत्यसन्धे जितात्मनि 001c देवव्रते महाभागे शरतल्पगतेऽच्युते 002a शयाने वीरशयने भीष्मे शन्तनुनन्दने 002c गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते 003a काः कथाः समवर्तन्त तस्मिन्वीरसमागमे 003c हतेषु सर्वसैन्येषु तन्मे शंस महामुने 004 वैशम्पायन उवाच 004a शरतल्पगते भीष्मे कौरवाणां धुरन्धरे 004c आजग्मुरृषयः सिद्धा नारदप्रमुखा नृप 005a हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः 005c धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा 006a तेऽभिगम्य महात्मानो भरतानां पितामहम् 006c अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा 007a मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः 007c उवाच पाण्डवान्सर्वान्हतशिष्टांश्च पार्थिवान् 008a प्राप्तकालं च आचक्षे भीष्मोऽयमनुयुज्यताम् 008c अस्तमेति हि गाङ्गेयो भानुमानिव भारत 009a अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्येत्य पृच्छत 009c कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम् 010a एष वृद्धः पुरा लोकान्सम्प्राप्नोति तनुत्यजाम् 010c तं शीघ्रमनुयुञ्जध्वं संशयान्मनसि स्थितान् 011a एवमुक्ता नारदेन भीष्ममीयुर्नराधिपाः 011c प्रष्टुं चाशक्नुवन्तस्ते वीक्षां चक्रुः परस्परम् 012a अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः 012c नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम् 013a प्रव्याहारय दुर्धर्ष त्वमग्रे मधुसूदन 013c त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः 014a एवमुक्तः पाण्डवेन भगवान्केशवस्तदा 014c अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः 015 वासुदेव उवाच 015a कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम 015c विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव 016a कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ 016c न ग्लायते च हृदयं न च ते व्याकुलं मनः 017 भीष्म उवाच 017a दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा 017c तव प्रसादाद्गोविन्द सद्यो व्यपगतानघ 018a यच्च भूतं भविष्यच्च भवच्च परमद्युते 018c तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम् 019a वेदोक्ताश्चैव ये धर्मा वेदान्तनिहिताश्च ये 019c तान्सर्वान्सम्प्रपश्यामि वरदानात्तवाच्युत 020a शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते 020c देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन 021a चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः 021c राजधर्मांश्च सकलानवगच्छामि केशव 022a यत्र यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन 022c तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत् 023a युवेव चास्मि संवृत्तस्त्वदनुध्यानबृंहितः 023c वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन 024a स्वयं किमर्थं तु भवाञ्श्रेयो न प्राह पाण्डवम् 024c किं ते विवक्षितं चात्र तदाशु वद माधव 025 वासुदेव उवाच 025a यशसः श्रेयसश्चैव मूलं मां विद्धि कौरव 025c मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः 026a शीतांशुश्चन्द्र इत्युक्ते को लोके विस्मयिष्यति 026c तथैव यशसा पूर्णे मयि को विस्मयिष्यति 027a आधेयं तु मया भूयो यशस्तव महाद्युते 027c ततो मे विपुला बुद्धिस्त्वयि भीष्म समाहिता 028a यावद्धि पृथिवीपाल पृथिवी स्थास्यते ध्रुवा 028c तावत्तवाक्षया कीर्तिर्लोकाननु चरिष्यति 029a यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते 029c वेदप्रवादा इव ते स्थास्यन्ति वसुधातले 030a यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना 030c स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति 031a एतस्मात्कारणाद्भीष्म मतिर्दिव्या मया हि ते 031c दत्ता यशो विप्रथेत कथं भूयस्तवेति ह 032a यावद्धि प्रथते लोके पुरुषस्य यशो भुवि 032c तावत्तस्याक्षयं स्थानं भवतीति विनिश्चितम् 033a राजानो हतशिष्टास्त्वां राजन्नभित आसते 033c धर्माननुयुयुक्षन्तस्तेभ्यः प्रब्रूहि भारत 034a भवान्हि वयसा वृद्धः श्रुताचारसमन्वितः 034c कुशलो राजधर्माणां पूर्वेषामपराश्च ये 035a जन्मप्रभृति ते कश्चिद्वृजिनं न ददर्श ह 035c ज्ञातारमनुधर्माणां त्वां विदुः सर्वपार्थिवाः 036a तेभ्यः पितेव पुत्रेभ्यो राजन्ब्रूहि परं नयम् 036c ऋषयश्च हि देवाश्च त्वया नित्यमुपासिताः 037a तस्माद्वक्तव्यमेवेह त्वया पश्याम्यशेषतः 037c धर्माञ्शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः 038a वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणः 038c अप्रतिब्रुवतः कष्टो दोषो हि भवति प्रभो 039a तस्मात्पुत्रैश्च पौत्रैश्च धर्मान्पृष्टः सनातनान् 039c विद्वाञ्जिज्ञासमानैस्त्वं प्रब्रूहि भरतर्षभ