001 वैशम्पायन उवाच 001a ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः 001c याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत 002a स ध्यानपथमाश्रित्य सर्वज्ञानानि माधवः 002c अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् 003a ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः 003c अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् 004a पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः 004c शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः 005a वीणापणववेणूनां स्वनश्चातिमनोरमः 005c प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः 006a तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः 006c उच्चेरुर्मधुरा वाचो गीतवादित्रसंहिताः 007a तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः 007c जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् 008a ततः सहस्रं विप्राणां चतुर्वेदविदां तथा 008c गवां सहस्रेणैकैकं वाचयामास माधवः 009a मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च 009c आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् 010a गच्छ शैनेय जानीहि गत्वा राजनिवेशनम् 010c अपि सज्जो महातेजा भीष्मं द्रष्टुं युधिष्ठिरः 011a ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौ 011c उपगम्य च राजानं युधिष्ठिरमुवाच ह 012a युक्तो रथवरो राजन्वासुदेवस्य धीमतः 012c समीपमापगेयस्य प्रयास्यति जनार्दनः 013a भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते 013c यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति 014 युधिष्ठिर उवाच 014a युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते 014c न सैनिकैश्च यातव्यं यास्यामो वयमेव हि 015a न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः 015c अतः पुरःसराश्चापि निवर्तन्तु धनञ्जय 016a अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति 016c ततो नेच्छामि कौन्तेय पृथग्जनसमागमम् 017 वैशम्पायन उवाच 017a तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनञ्जयः 017c युक्तं रथवरं तस्मा आचचक्षे नरर्षभ 018a ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि 018c भूतानीव समस्तानि ययुः कृष्णनिवेशनम् 019a आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु 019c शैनेयसहितो धीमान्रथमेवान्वपद्यत 020a रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् 020c मेघघोषै रथवरैः प्रययुस्ते महारथाः 021a मेघपुष्पं बलाहं च सैन्यं सुग्रीवमेव च 021c दारुकश्चोदयामास वासुदेवस्य वाजिनः 022a ते हया वासुदेवस्य दारुकेण प्रचोदिताः 022c गां खुराग्रैस्तथा राजल्ँलिखन्तः प्रययुस्तदा 023a ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः 023c क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् 024a ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः 024c आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा 025a ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः 025c भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च 025e ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् 026a स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः 026c अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः 027a शरतल्पे शयानं तमादित्यं पतितं यथा 027c ददर्श स महाबाहुर्भयादागतसाध्वसः