001 वैशम्पायन उवाच 001a ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम् 001c श्रुत्वा शान्तनवो भीष्मः प्रत्युवाच कृताञ्जलिः 002a लोकनाथ महाबाहो शिव नारायणाच्युत 002c तव वाक्यमभिश्रुत्य हर्षेणास्मि परिप्लुतः 003a किं चाहमभिधास्यामि वाक्पते तव सन्निधौ 003c यदा वाचोगतं सर्वं तव वाचि समाहितम् 004a यद्धि किञ्चित्कृतं लोके कर्तव्यं क्रियते च यत् 004c त्वत्तस्तन्निःसृतं देव लोका बुद्धिमया हि ते 005a कथयेद्देवलोकं यो देवराजसमीपतः 005c धर्मकामार्थशास्त्राणां सोऽर्थान्ब्रूयात्तवाग्रतः 006a शराभिघाताद्व्यथितं मनो मे मधुसूदन 006c गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति 007a न च मे प्रतिभा काचिदस्ति किञ्चित्प्रभाषितुम् 007c पीड्यमानस्य गोविन्द विषानलसमैः शरैः 008a बलं मेधाः प्रजरति प्राणाः सन्त्वरयन्ति च 008c मर्माणि परितप्यन्ते भ्रान्तं चेतस्तथैव च 009a दौर्बल्यात्सज्जते वाङ्मे स कथं वक्तुमुत्सहे 009c साधु मे त्वं प्रसीदस्व दाशार्हकुलनन्दन 010a तत्क्षमस्व महाबाहो न ब्रूयां किञ्चिदच्युत 010c त्वत्सन्निधौ च सीदेत वाचस्पतिरपि ब्रुवन् 011a न दिशः सम्प्रजानामि नाकाशं न च मेदिनीम् 011c केवलं तव वीर्येण तिष्ठामि मधुसूदन 012a स्वयमेव प्रभो तस्माद्धर्मराजस्य यद्धितम् 012c तद्ब्रवीह्याशु सर्वेषामागमानां त्वमागमः 013a कथं त्वयि स्थिते लोके शाश्वते लोककर्तरि 013c प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते 014 वासुदेव उवाच 014a उपपन्नमिदं वाक्यं कौरवाणां धुरन्धरे 014c महावीर्ये महासत्त्वे स्थिते सर्वार्थदर्शिनि 015a यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति 015c गृहाणात्र वरं भीष्म मत्प्रसादकृतं विभो 016a न ते ग्लानिर्न ते मूर्छा न दाहो न च ते रुजा 016c प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत 017a ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ 017c न च ते क्वचिदासक्तिर्बुद्धेः प्रादुर्भविष्यति 018a सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति 018c रजस्तमोभ्यां रहितं घनैर्मुक्त इवोडुराट् 019a यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि वा 019c चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति 020a इमं च राजशार्दूल भूतग्रामं चतुर्विधम् 020c चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम 021a चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा 021c भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले 022 वैशम्पायन उवाच 022a ततस्ते व्याससहिताः सर्व एव महर्षयः 022c ऋग्यजुःसामसंयुक्तैर्वचोभिः कृष्णमर्चयन् 023a ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात् 023c पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः 024a वादित्राणि च दिव्यानि जगुश्चाप्सरसां गणाः 024c न चाहितमनिष्टं वा किञ्चित्तत्र व्यदृश्यत 025a ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः 025c शान्तायां दिशि शान्ताश्च प्रावदन्मृगपक्षिणः 026a ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः 026c दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत 027a ततो महर्षयः सर्वे समुत्थाय जनार्दनम् 027c भीष्ममामन्त्रयां चक्रू राजानं च युधिष्ठिरम् 028a ततः प्रणाममकरोत्केशवः पाण्डवस्तथा 028c सात्यकिः सञ्जयश्चैव स च शारद्वतः कृपः 029a ततस्ते धर्मनिरताः सम्यक्तैरभिपूजिताः 029c श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः 030a तथैवामन्त्र्य गाङ्गेयं केशवस्ते च पाण्डवाः 030c प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान् 031a ततो रथैः काञ्चनदन्तकूबरैर्महीधराभैः समदैश्च दन्तिभिः 031c हयैः सुपर्णैरिव चाशुगामिभिः पदातिभिश्चात्तशरासनादिभिः 032a ययौ रथानां पुरतो हि सा चमूस्तथैव पश्चादतिमात्रसारिणी 032c पुरश्च पश्चाच्च यथा महानदी पुरर्क्षवन्तं गिरिमेत्य नर्मदा 033a ततः पुरस्ताद्भगवान्निशाकरः समुत्थितस्तामभिहर्षयंश्चमूम् 033c दिवाकरापीतरसास्तथौषधीः पुनः स्वकेनैव गुणेन योजयन् 034a ततः पुरं सुरपुरसन्निभद्युति प्रविश्य ते यदुवृषपाण्डवास्तदा 034c यथोचितान्भवनवरान्समाविशञ्श्रमान्विता मृगपतयो गुहा इव