001 वैशम्पायन उवाच 001a श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः 001c किञ्चिदुन्नाम्य वदनं प्राञ्जलिर्वाक्यमब्रवीत् 002a नमस्ते भगवन्विष्णो लोकानां निधनोद्भव 002c त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः 003a विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव 003c अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः 004a नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु 004c योगेश्वर नमस्तेऽस्तु त्वं हि सर्वपरायणम् 005a मत्संश्रितं यदात्थ त्वं वचः पुरुषसत्तम 005c तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु 006a तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् 006c सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः 007a दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा 007c दिशो भुजौ रविश्चक्षुर्वीर्ये शक्रः प्रतिष्ठितः 008a अतसीपुष्पसङ्काशं पीतवाससमच्युतम् 008c वपुर्ह्यनुमिमीमस्ते मेघस्येव सविद्युतः 009a त्वत्प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे 009c यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम 010 वासुदेव उवाच 010a यतः खलु परा भक्तिर्मयि ते पुरुषर्षभ 010c ततो वपुर्मया दिव्यं तव राजन्प्रदर्शितम् 011a न ह्यभक्ताय राजेन्द्र भक्तायानृजवे न च 011c दर्शयाम्यहमात्मानं न चादान्ताय भारत 012a भवांस्तु मम भक्तश्च नित्यं चार्जवमास्थितः 012c दमे तपसि सत्ये च दाने च निरतः शुचिः 013a अर्हस्त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव 013c तव ह्युपस्थिता लोका येभ्यो नावर्तते पुनः 014a पञ्चाशतं षट्च कुरुप्रवीर शेषं दिनानां तव जीवितस्य 014c ततः शुभैः कर्मफलोदयैस्त्वं समेष्यसे भीष्म विमुच्य देहम् 015a एते हि देवा वसवो विमानान्यास्थाय सर्वे ज्वलिताग्निकल्पाः 015c अन्तर्हितास्त्वां प्रतिपालयन्ति काष्ठां प्रपद्यन्तमुदक्पतङ्गम् 016a व्यावृत्तमात्रे भगवत्युदीचीं सूर्ये दिशं कालवशात्प्रपन्ने 016c गन्तासि लोकान्पुरुषप्रवीर नावर्तते यानुपलभ्य विद्वान् 017a अमुं च लोकं त्वयि भीष्म याते ज्ञानानि नङ्क्ष्यन्त्यखिलेन वीर 017c अतः स्म सर्वे त्वयि सन्निकर्षं समागता धर्मविवेचनाय 018a तज्ज्ञातिशोकोपहतश्रुताय सत्याभिसन्धाय युधिष्ठिराय 018c प्रब्रूहि धर्मार्थसमाधियुक्तमर्थ्यं वचोऽस्यापनुदास्य शोकम्