001 वैशम्पायन उवाच 001a ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः 001c विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् 002a अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः 002c विक्रमो येन वसुधा क्रोधान्निःक्षत्रिया कृता 003a गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः 003c गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः 004a अहो धन्यो हि लोकोऽयं सभाग्याश्च नरा भुवि 004c यत्र कर्मेदृशं धर्म्यं द्विजेन कृतमच्युत 005a तथा यान्तौ तदा तात तावच्युतयुधिष्ठिरौ 005c जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः 006a ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम् 006c स्वरश्मिजालसंवीतं सायंसूर्यमिवानलम् 007a उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम् 007c देशे परमधर्मिष्ठे नदीमोघवतीमनु 008a दूरादेव तमालोक्य कृष्णो राजा च धर्मराट् 008c चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः 009a अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः 009c एकीकृत्येन्द्रियग्राममुपतस्थुर्महामुनीन् 010a अभिवाद्य च गोविन्दः सात्यकिस्ते च कौरवाः 010c व्यासादींस्तानृषीन्पश्चाद्गाङ्गेयमुपतस्थिरे 011a तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः 011c परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः 012a ततो निशम्य गाङ्गेयं शाम्यमानमिवानलम् 012c किञ्चिद्दीनमना भीष्ममिति होवाच केशवः 013a कच्चिज्ज्ञानानि ते राजन्प्रसन्नानि यथा पुरा 013c कच्चिदव्याकुला चैव बुद्धिस्ते वदतां वर 014a शराभिघातदुःखात्ते कच्चिद्गात्रं न दूयते 014c मानसादपि दुःखाद्धि शारीरं बलवत्तरम् 015a वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो 015c शन्तनोर्धर्मशीलस्य न त्वेतच्छमकारणम् 016a सुसूक्ष्मोऽपीह देहे वै शल्यो जनयते रुजम् 016c किं पुनः शरसङ्घातैश्चितस्य तव भारत 017a कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ 017c भवान्ह्युपदिशेच्छ्रेयो देवानामपि भारत 018a यद्धि भूतं भविष्यच्च भवच्च पुरुषर्षभ 018c सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम् 019a संसारश्चैव भूतानां धर्मस्य च फलोदयः 019c विदितस्ते महाप्राज्ञ त्वं हि ब्रह्ममयो निधिः 020a त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् 020c स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम् 021a ऋते शान्तनवाद्भीष्मात्त्रिषु लोकेषु पार्थिव 021c सत्यसन्धान्महावीर्याच्छूराद्धर्मैकतत्परात् 022a मृत्युमावार्य तरसा शरप्रस्तरशायिनः 022c निसर्गप्रभवं किञ्चिन्न च तातानुशुश्रुम 023a सत्ये तपसि दाने च यज्ञाधिकरणे तथा 023c धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे 024a अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम् 024c महारथं त्वत्सदृशं न कञ्चिदनुशुश्रुम 025a त्वं हि देवान्सगन्धर्वान्ससुरासुरराक्षसान् 025c शक्त एकरथेनैव विजेतुं नात्र संशयः 026a त्वं हि भीष्म महाबाहो वसूनां वासवोपमः 026c नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः 027a अहं हि त्वाभिजानामि यस्त्वं पुरुषसत्तम 027c त्रिदशेष्वपि विख्यातः स्वशक्त्या सुमहाबलः 028a मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः 028c भवतो यो गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित् 029a त्वं हि सर्वैर्गुणै राजन्देवानप्यतिरिच्यसे 029c तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् 030a तदस्य तप्यमानस्य ज्ञातीनां सङ्क्षयेण वै 030c ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद 031a ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत 031c चातुराश्रम्यसंसृष्टास्ते सर्वे विदितास्तव 032a चातुर्वेद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत 032c साङ्ख्ये योगे च नियता ये च धर्माः सनातनाः 033a चातुर्वर्ण्येन यश्चैको धर्मो न स्म विरुध्यते 033c सेव्यमानः स चैवाद्यो गाङ्गेय विदितस्तव 034a इतिहासपुराणं च कार्त्स्न्येन विदितं तव 034c धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् 035a ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः 035c तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभ 036a स पाण्डवेयस्य मनःसमुत्थितं नरेन्द्र शोकं व्यपकर्ष मेधया 036c भवद्विधा ह्युत्तमबुद्धिविस्तरा विमुह्यमानस्य जनस्य शान्तये