001 वासुदेव उवाच 001a शृणु कौन्तेय रामस्य मया यावत्परिश्रुतम् 001c महर्षीणां कथयतां कारणं तस्य जन्म च 002a यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः 002c उद्भूता राजवंशेषु ये भूयो भारते हताः 003a जह्नोरजह्नुस्तनयो बल्लवस्तस्य चात्मजः 003c कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपतिः 004a उग्रं तपः समातिष्ठत्सहस्राक्षसमो भुवि 004c पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत 005a तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः 005c समर्थः पुत्रजनने स्वयमेवैत्य भारत 006a पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः 006c गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः 007a तस्य कन्याभवद्राजन्नाम्ना सत्यवती प्रभो 007c तां गाधिः कविपुत्राय सोर्चीकाय ददौ प्रभुः 008a ततः प्रीतस्तु कौन्तेय भार्गवः कुरुनन्दन 008c पुत्रार्थे श्रपयामास चरुं गाधेस्तथैव च 009a आहूय चाह तां भार्यामृचीको भार्गवस्तदा 009c उपयोज्यश्चरुरयं त्वया मात्राप्ययं तव 010a तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः 010c अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः 011a तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम् 011c शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति 012a इत्येवमुक्त्वा तां भार्यामृचीको भृगुनन्दनः 012c तपस्यभिरतो धीमाञ्जगामारण्यमेव ह 013a एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः 013c गाधिः सदारः सम्प्राप्त ऋचीकस्याश्रमं प्रति 014a चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा 014c भर्तुर्वाक्यादथाव्यग्रा मात्रे हृष्टा न्यवेदयत् 015a माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ 015c तस्याश्चरुमथाज्ञातमात्मसंस्थं चकार ह 016a अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा 016c धारयामास दीप्तेन वपुषा घोरदर्शनम् 017a तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन वै ततः 017c अब्रवीद्राजशार्दूल स्वां भार्यां वरवर्णिनीम् 018a मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना 018c जनिष्यते हि ते पुत्रः क्रूरकर्मा महाबलः 019a जनिष्यते हि ते भ्राता ब्रह्मभूतस्तपोधनः 019c विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् 020a सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा 020c पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम् 021a नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः 021c ब्राह्मणापसदं पुत्रं प्राप्स्यसीति महामुने 022 ऋचीक उवाच 022a नैष सङ्कल्पितः कामो मया भद्रे तथा त्वयि 022c उग्रकर्मा भवेत्पुत्रश्चरुर्माता च कारणम् 023 सत्यवत्युवाच 023a इच्छल्ँलोकानपि मुने सृजेथाः किं पुनर्मम 023c शमात्मकमृजुं पुत्रं लभेयं जपतां वर 024 ऋचीक उवाच 024a नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः 024c किमुताग्निं समाधाय मन्त्रवच्चरुसाधने 025 सत्यवत्युवाच 025a काममेवं भवेत्पौत्रो ममेह तव चैव ह 025c शमात्मकमृजुं पुत्रं लभेयं जपतां वर 026 ऋचीक उवाच 026a पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि 026c यथा त्वयोक्तं तु वचस्तथा भद्रे भविष्यति 027 वासुदेव उवाच 027a ततः सत्यवती पुत्रं जनयामास भार्गवम् 027c तपस्यभिरतं शान्तं जमदग्निं शमात्मकम् 028a विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः 028c प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम् 029a आर्चीको जनयामास जमदग्निः सुदारुणम् 029c सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम् 029e रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् 030a एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली 030c अर्जुनो नाम तेजस्वी क्षत्रियो हैहयान्वयः 031a ददाह पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् 031c स्वबाह्वस्त्रबलेनाजौ धर्मेण परमेण च 032a तृषितेन स कौरव्य भिक्षितश्चित्रभानुना 032c सहस्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये 033a ग्रामान्पुराणि घोषांश्च पत्तनानि च वीर्यवान् 033c जज्वाल तस्य बाणैस्तु चित्रभानुर्दिधक्षया 034a स तस्य पुरुषेन्द्रस्य प्रभावेन महातपाः 034c ददाह कार्तवीर्यस्य शैलानथ वनानि च 035a स शून्यमाश्रमारण्यं वरुणस्यात्मजस्य तत् 035c ददाह पवनेनेद्धश्चित्रभानुः सहैहयः 036a आपवस्तं ततो रोषाच्छशापार्जुनमच्युत 036c दग्धेऽऽश्रमे महाराज कार्तवीर्येण वीर्यवान् 037a त्वया न वर्जितं मोहाद्यस्माद्वनमिदं मम 037c दग्धं तस्माद्रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन 038a अर्जुनस्तु महाराज बली नित्यं शमात्मकः 038c ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत 039a तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे 039c निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा 040a जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ 040c अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः 041a ततोऽर्जुनस्य बाहूंस्तु छित्त्वा वै पौरुषान्वितः 041c तं रुवन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् 041e प्रत्यानयत राजेन्द्र तेषामन्तःपुरात्प्रभुः 042a अर्जुनस्य सुतास्ते तु सम्भूयाबुद्धयस्तदा 042c गत्वाश्रममसम्बुद्धं जमदग्नेर्महात्मनः 043a अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप 043c समित्कुशार्थं रामस्य निर्गतस्य महात्मनः 044a ततः पितृवधामर्षाद्रामः परममन्युमान् 044c निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत 045a ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् 045c विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः 046a स हैहयसहस्राणि हत्वा परममन्युमान् 046c चकार भार्गवो राजन्महीं शोणितकर्दमाम् 047a स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम् 047c कृपया परयाविष्टो वनमेव जगाम ह 048a ततो वर्षसहस्रेषु समतीतेषु केषुचित् 048c क्षोभं सम्प्राप्तवांस्तीव्रं प्रकृत्या कोपनः प्रभुः 049a विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः 049c परावसुर्महाराज क्षिप्त्वाह जनसंसदि 050a ये ते ययातिपतने यज्ञे सन्तः समागताः 050c प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते 051a मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि 051c भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः 052a स पुनः क्षत्रियशतैः पृथिवीमनुसन्तताम् 052c परावसोस्तदा श्रुत्वा शस्त्रं जग्राह भार्गवः 053a ततो ये क्षत्रिया राजञ्शतशस्तेन जीविताः 053c ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन् 054a स पुनस्ताञ्जघानाशु बालानपि नराधिप 054c गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा 055a जातं जातं स गर्भं तु पुनरेव जघान ह 055c अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः 056a त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः 056c दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः 057a क्षत्रियाणां तु शेषार्थं करेणोद्दिश्य कश्यपः 057c स्रुक्प्रग्रहवता राजञ्श्रीमान्वाक्यमथाब्रवीत् 058a गच्छ पारं समुद्रस्य दक्षिणस्य महामुने 058c न ते मद्विषये राम वस्तव्यमिह कर्हिचित् 059a ततः शूर्पारकं देशं सागरस्तस्य निर्ममे 059c सन्त्रासाज्जामदग्न्यस्य सोऽपरान्तं महीतलम् 060a कश्यपस्तु महाराज प्रतिगृह्य महीमिमाम् 060c कृत्वा ब्राह्मणसंस्थां वै प्रविवेश महावनम् 061a ततः शूद्राश्च वैश्याश्च यथास्वैरप्रचारिणः 061c अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ 062a अराजके जीवलोके दुर्बला बलवत्तरैः 062c बाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित् 063a ततः कालेन पृथिवी प्रविवेश रसातलम् 063c अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः 064a ऊरुणा धारयामास कश्यपः पृथिवीं ततः 064c निमज्जन्तीं तदा राजंस्तेनोर्वीति मही स्मृता 065a रक्षिणश्च समुद्दिश्य प्रायाचत्पृथिवी तदा 065c प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः 066a सन्ति ब्रह्मन्मया गुप्ता नृषु क्षत्रियपुङ्गवाः 066c हैहयानां कुले जातास्ते संरक्षन्तु मां मुने 067a अस्ति पौरवदायादो विडूरथसुतः प्रभो 067c ऋक्षैः संवर्धितो विप्र ऋक्षवत्येव पर्वते 068a तथानुकम्पमानेन यज्वनाथामितौजसा 068c पराशरेण दायादः सौदासस्याभिरक्षितः 069a सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद्धि सः 069c सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः 070a शिबेः पुत्रो महातेजा गोपतिर्नाम नामतः 070c वने संरक्षितो गोभिः सोऽभिरक्षतु मां मुने 071a प्रतर्दनस्य पुत्रस्तु वत्सो नाम महायशाः 071c वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः 072a दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य ह 072c अङ्गः स गौतमेनापि गङ्गाकूलेऽभिरक्षितः 073a बृहद्रथो महाबाहुर्भुवि भूतिपुरस्कृतः 073c गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः 074a मरुत्तस्यान्ववाये तु क्षत्रियास्तुर्वसोस्त्रयः 074c मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः 075a एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः 075c सम्यङ्मामभिरक्षन्तु ततः स्थास्यामि निश्चला 076a एतेषां पितरश्चैव तथैव च पितामहाः 076c मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा 077a तेषामपचितिश्चैव मया कार्या न संशयः 077c न ह्यहं कामये नित्यमविक्रान्तेन रक्षणम् 078a ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः 078c अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसम्मतान् 079a तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः 079c एवमेतत्पुरा वृत्तं यन्मां पृच्छसि पाण्डव 080 वैशम्पायन उवाच 080a एवं ब्रुवन्नेव यदुप्रवीरो युधिष्ठिरं धर्मभृतां वरिष्ठम् 080c रथेन तेनाशु ययौ यथार्को विशन्प्रभाभिर्भगवांस्त्रिलोकम्