001 वैशम्पायन उवाच 001a ततः स च हृषीकेशः स च राजा युधिष्ठिरः 001c कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ह 002a रथैस्ते नगराकारैः पताकाध्वजशोभितैः 002c ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः 003a तेऽवतीर्य कुरुक्षेत्रं केशमज्जास्थिसङ्कुलम् 003c देहन्यासः कृतो यत्र क्षत्रियैस्तैर्महात्मभिः 004a गजाश्वदेहास्थिचयैः पर्वतैरिव सञ्चितम् 004c नरशीर्षकपालैश्च शङ्खैरिव समाचितम् 005a चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम् 005c आपानभूमिं कालस्य तदा भुक्तोज्झितामिव 006a भूतसङ्घानुचरितं रक्षोगणनिषेवितम् 006c पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः 007a गच्छन्नेव महाबाहुः सर्वयादवनन्दनः 007c युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम् 008a अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः 008c येषु सन्तर्पयामास पूर्वान्क्षत्रियशोणितैः 009a त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः 009c इहेदानीं ततो रामः कर्मणो विरराम ह 010 युधिष्ठिर उवाच 010a त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदा 010c रामेणेति यदात्थ त्वमत्र मे संशयो महान् 011a क्षत्रबीजं यदा दग्धं रामेण यदुपुङ्गव 011c कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम 012a महात्मना भगवता रामेण यदुपुङ्गव 012c कथमुत्सादितं क्षत्रं कथं वृद्धिं पुनर्गतम् 013a महाभारतयुद्धे हि कोटिशः क्षत्रिया हताः 013c तथाभूच्च मही कीर्णा क्षत्रियैर्वदतां वर 014a एवं मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन 014c आगमो हि परः कृष्ण त्वत्तो नो वासवानुज 015 वैशम्पायन उवाच 015a ततो व्रजन्नेव गदाग्रजः प्रभुः शशंस तस्मै निखिलेन तत्त्वतः 015c युधिष्ठिरायाप्रतिमौजसे तदा यथाभवत्क्षत्रियसङ्कुला मही