002 वैशम्पायन उवाच 002a शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः 002c भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः 003a निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे 003c समावेशयदात्मानमात्मन्येव समाहितः 004a विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः 004c शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः 005a व्यासेन वेदश्रवसा नारदेन सुरर्षिणा 005c देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना 006a एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः 006c श्रद्धादमपुरस्कारैर्वृतश्चन्द्र इव ग्रहैः 007a भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा 007c शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः 008a स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम् 008c योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् 009a कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम् 009c भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् 010a आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम् 010c तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः 011a शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम् 011c युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् 012a यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च 012c गुणभूतानि भूतेशे सूत्रे मणिगणा इव 013a यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति 013c सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि 014a हरिं सहस्रशिरसं सहस्रचरणेक्षणम् 014c प्राहुर्नारायणं देवं यं विश्वस्य परायणम् 015a अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् 015c गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि 016a यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च 016c गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु 017a चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम् 017c यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः 018a यं देवं देवकी देवी वसुदेवादजीजनत् 018c भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः 019a यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् 019c इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् 020a पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु 020c क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे 021a अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् 021c अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् 022a यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् 022c वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् 023a हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् 023c एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः 024a शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः 024c यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः 025a महतस्तमसः पारे पुरुषं ज्वलनद्युतिम् 025c यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः 026a यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे 026c यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः 027a ऋग्यजुःसामधामानं दशार्धहविराकृतिम् 027c यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः 028a यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः 028c रथन्तरबृहत्यक्षस्तस्मै स्तोत्रात्मने नमः 029a यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः 029c हिरण्यवर्णः शकुनिस्तस्मै हंसात्मने नमः 030a पदाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनलक्षणम् 030c यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः 031a यश्चिनोति सतां सेतुमृतेनामृतयोनिना 031c धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः 032a यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः 032c पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः 033a यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः 033c क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः 034a यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः 034c प्राहुः सप्तदशं साङ्ख्यास्तस्मै साङ्ख्यात्मने नमः 035a यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः 035c ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः 036a अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः 036c शान्ताः सन्न्यासिनो यान्ति तस्मै मोक्षात्मने नमः 037a योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः 037c सम्भक्षयति भूतानि तस्मै घोरात्मने नमः 038a सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् 038c बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः 039a सहस्रशिरसे तस्मै पुरुषायामितात्मने 039c चतुःसमुद्रपर्याययोगनिद्रात्मने नमः 040a अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् 040c पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः 041a यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु 041c कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः 042a युगेष्वावर्तते योंऽशैर्दिनर्त्वयनहायनैः 042c सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः 043a ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः 043c पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः 044a यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः 044c सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः 045a विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः 045c प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः 046a अन्नपानेन्धनमयो रसप्राणविवर्धनः 046c यो धारयति भूतानि तस्मै प्राणात्मने नमः 047a परः कालात्परो यज्ञात्परः सदसतोश्च यः 047c अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः 048a यो मोहयति भूतानि स्नेहरागानुबन्धनैः 048c सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः 049a आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् 049c यं ज्ञानिनोऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः 050a अप्रमेयशरीराय सर्वतोऽनन्तचक्षुषे 050c अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः 051a जटिने दण्डिने नित्यं लम्बोदरशरीरिणे 051c कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः 052a शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने 052c भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः 053a पञ्चभूतात्मभूताय भूतादिनिधनात्मने 053c अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः 054a यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः 054c यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः 055a विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव 055c अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः 056a नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु 056c नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् 057a नमस्ते भगवन्विष्णो लोकानां प्रभवाप्यय 057c त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः 058a तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु 058c तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् 059a दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा 059c विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः 060a अतसीपुष्पसङ्काशं पीतवाससमच्युतम् 060c ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् 061a यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः 061c यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा 062a त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे 062c यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम 063a इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः 063c वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः 064a एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः 064c नम इत्येव कृष्णाय प्रणाममकरोत्तदा 065a अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः 065c त्रैकाल्यदर्शनं ज्ञानं दिव्यं दातुं ययौ हरिः 066a तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः 066c भीष्मं वाग्भिर्बाष्पकण्ठास्तमानर्चुर्महामतिम् 067a ते स्तुवन्तश्च विप्राग्र्याः केशवं पुरुषोत्तमम् 067c भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः 068a विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः 068c सहसोत्थाय संहृष्टो यानमेवान्वपद्यत 069a केशवः सात्यकिश्चैव रथेनैकेन जग्मतुः 069c अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ 070a भीमसेनो यमौ चोभौ रथमेकं समास्थितौ 070c कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम् 071a ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः 071c नेमिघोषेण महता कम्पयन्तो वसुन्धराम् 072a ततो गिरः पुरुषवरस्तवान्विता द्विजेरिताः पथि सुमनाः स शुश्रुवे 072c कृताञ्जलिं प्रणतमथापरं जनं स केशिहा मुदितमनाभ्यनन्दत