001 युधिष्ठिर उवाच 001a किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम 001c कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण 002a चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषोत्तम 002c अपक्रान्तो यतो देव तेन मे विस्मितं मनः 003a निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः 003c इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते 004a इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते 004c सर्वश्चैव गणो देव क्षेत्रज्ञे ते निवेशितः 005a नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः 005c स्थाणुकुड्यशिलाभूतो निरीहश्चासि माधव 006a यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत 006c तथासि भगवन्देव निश्चलो दृढनिश्चयः 007a यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि 007c छिन्धि मे संशयं देव प्रपन्नायाभियाचते 008a त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि 008c अनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम 009a त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च 009c ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर 010 वैशम्पायन उवाच 010a ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि च 010c स्मितपूर्वमुवाचेदं भगवान्वासवानुजः 011a शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः 011c मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः 012a यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः 012c न सहेद्देवराजोऽपि तमस्मि मनसा गतः 013a येनाभिद्रुत्य तरसा समस्तं राजमण्डलम् 013c ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः 014a त्रयोविंशतिरात्रं यो योधयामास भार्गवम् 014c न च रामेण निस्तीर्णस्तमस्मि मनसा गतः 015a यं गङ्गा गर्भविधिना धारयामास पार्थिवम् 015c वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप 016a दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान् 016c साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः 017a रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव 017c आधारं सर्वविद्यानां तमस्मि मनसा गतः 018a एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया 018c शरणं मामुपागच्छत्ततो मे तद्गतं मनः 019a स हि भूतं च भव्यं च भवच्च पुरुषर्षभ 019c वेत्ति धर्मभृतां श्रेष्ठस्ततो मे तद्गतं मनः 020a तस्मिन्हि पुरुषव्याघ्रे कर्मभिः स्वैर्दिवं गते 020c भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी 021a तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम् 021c अभिगम्योपसङ्गृह्य पृच्छ यत्ते मनोगतम् 022a चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यमेव च 022c चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते 023a तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरन्धरे 023c ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम् 024a तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम् 024c साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह 025a यद्भवानाह भीष्मस्य प्रभावं प्रति माधव 025c तथा तन्नात्र सन्देहो विद्यते मम मानद 026a महाभाग्यं हि भीष्मस्य प्रभावश्च महात्मनः 026c श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम् 027a भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन 027c तथा तदनभिध्येयं वाक्यं यादवनन्दन 028a यतस्त्वनुग्रहकृता बुद्धिस्ते मयि माधव 028c त्वामग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम् 029a आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति 029c त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः 030a तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च 030c दर्शनं तस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः 031a श्रुत्वैतद्धर्मराजस्य वचनं मधुसूदनः 031c पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति 032a सात्यकिस्तूपनिष्क्रम्य केशवस्य समीपतः 032c दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत 033a स सात्यकेराशु वचो निशम्य रथोत्तमं काञ्चनभूषिताङ्गम् 033c मसारगल्वर्कमयैर्विभङ्गैर्विभूषितं हेमपिनद्धचक्रम् 034a दिवाकरांशुप्रभमाशुगामिनं विचित्रनानामणिरत्नभूषितम् 034c नवोदितं सूर्यमिव प्रतापिनं विचित्रतार्क्ष्यध्वजिनं पताकिनम् 035a सुग्रीवसैन्यप्रमुखैर्वराश्वैर्मनोजवैः काञ्चनभूषिताङ्गैः 035c सुयुक्तमावेदयदच्युताय कृताञ्जलिर्दारुको राजसिंह