001 जनमेजय उवाच 001a प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः 001c यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि 002a भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः 002c ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि 003 वैशम्पायन उवाच 003a शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ 003c वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः 004a प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः 004c चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत् 005a ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् 005c सहस्रनिष्कमेकैकं वाचयामास पाण्डवः 006a तथानुजीविनो भृत्यान्संश्रितानतिथीनपि 006c कामैः सन्तर्पयामास कृपणांस्तर्ककानपि 007a पुरोहिताय धौम्याय प्रादादयुतशः स गाः 007c धनं सुवर्णं रजतं वासांसि विविधानि च 008a कृपाय च महाराज गुरुवृत्तिमवर्तत 008c विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः 009a भक्षान्नपानैर्विविधैर्वासोभिः शयनासनैः 009c सर्वान्सन्तोषयामास संश्रितान्ददतां वरः 010a लब्धप्रशमनं कृत्वा स राजा राजसत्तम 010c युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः 011a धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च 011c निवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः 012a तथा सर्वं स नगरं प्रसाद्य जनमेजय 012c वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः 013a ततो महति पर्यङ्के मणिकाञ्चनभूषिते 013c ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् 014a जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् 014c पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम् 015a कौस्तुभेन उरःस्थेन मणिनाभिविराजितम् 015c उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम् 015e नौपम्यं विद्यते यस्य त्रिषु लोकेषु किञ्चन 016a सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम् 016c उवाच मधुराभाषः स्मितपूर्वमिदं तदा 017a सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर 017c कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत 018a तव ह्याश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर 018c वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता 019a भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रम 019c जयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम् 020a तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम् 020c नोवाच भगवान्किञ्चिद्ध्यानमेवान्वपद्यत