001 वैशम्पायन उवाच 001a ततो विसर्जयामास सर्वाः प्रकृतयो नृपः 001c विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि च 002a ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम् 002c सान्त्वयन्नब्रवीद्धीमानर्जुनं यमजौ तथा 003a शत्रुभिर्विविधैः शस्त्रैः कृत्तदेहा महारणे 003c श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः 004a अरण्ये दुःखवसतीर्मत्कृते पुरुषोत्तमाः 004c भवद्भिरनुभूताश्च यथा कुपुरुषैस्तथा 005a यथासुखं यथाजोषं जयोऽयमनुभूयताम् 005c विश्रान्ताल्ँलब्धविज्ञानाञ्श्वः समेतास्मि वः पुनः 006a ततो दुर्योधनगृहं प्रासादैरुपशोभितम् 006c बहुरत्नसमाकीर्णं दासीदाससमाकुलम् 007a धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः 007c प्रतिपेदे महाबाहुर्मन्दरं मघवानिव 008a यथा दुर्योधनगृहं तथा दुःशासनस्य च 008c प्रासादमालासंयुक्तं हेमतोरणभूषितम् 009a दासीदाससुसम्पूर्णं प्रभूतधनधान्यवत् 009c प्रतिपेदे महाबाहुरर्जुनो राजशासनात् 010a दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम् 010c कुबेरभवनप्रख्यं मणिहेमविभूषितम् 011a नकुलाय वरार्हाय कर्शिताय महावने 011c ददौ प्रीतो महाराज धर्मराजो युधिष्ठिरः 012a दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषितम् 012c पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम् 013a प्रददौ सहदेवाय सततं प्रियकारिणे 013c मुमुदे तच्च लब्ध्वा स कैलासं धनदो यथा 014a युयुत्सुर्विदुरश्चैव सञ्जयश्च महाद्युतिः 014c सुधर्मा चैव धौम्यश्च यथास्वं जग्मुरालयान् 015a सह सात्यकिना शौरिरर्जुनस्य निवेशनम् 015c विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव 016a तत्र भक्षान्नपानैस्ते समुपेताः सुखोषिताः 016c सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम्